________________
[ है ० ५.३.१३७.]
त्रयोदशः सर्गः ।
१३३
शनैरतितेजस्वित्वाद्दुःखेनावलोक्यैस्तथा दुःशासनैर्बलिष्टत्वाद्दुःखेन शिक्षणीयैरत एव दुर्योधनैरन्तर्भूतणिगर्धत्वेन दुःखेन योधनीयैरत एव च दुःखेनाविकुंवा विक्लवाः क्रियन्ते ये तैर्दुरभिभवनीयैरित्यर्थः ॥ अनीषच्छासनो दुर्धर्षणो दुर्मर्पणोपि च ।
मया सुशासनस्तेरिर्दुरुत्थानं न तत्त्वया ।। ३८ ।।
३८. तेरिर्मया सुशासनः सुखेन शिक्षणीयः । किंभूतोपि । अनीबच्छासनोपि तथा दुर्धर्षणो दुरभिभवनीयोपि दुर्मर्पणोपि च दुःसह्यपि च । तत्तस्मात्त्वया न दुरुत्थानं किं तु सुखेन त्वयोदेतव्यमित्यर्थः ॥
3
ईषदानं मयानीषदानेपि त्वत्कृते सखे ।
सुयानमसुयानेपि दुर्ज्ञानं तद्वदेहितम् ॥ ३९ ॥
३९. हे सखेनीषद्दाने दुःखेन देयेपि वस्तुनि विपये त्वत्कृते त्वदर्थं मयेषदानं सुखेन दीयते तथासुयानेपि महाकूपादौ सुयानं सुखेन गम्यते तत्तस्माद्दुर्ज्ञानं दुर्ज्ञेयमीहितं स्वाभिप्रायं वद । तेजोदुर्दर्शदुर्धर्षमूचे सोपीति भूपतिम् ।
शृणु दुःशास दुर्योध दुर्मर्षाशेषमावयोः ॥ ४० ॥
४०. स्पष्टः । किं त्वावयोः संबन्ध्यशेषं समस्तमर्थाद्वृत्तान्तम् ॥ उदङ्क । इति ‘“उदङ्कोतोये” [ १३५ ] इति निपात्यम् ॥ अतोय इति किम् । उदकोदञ्चनी ॥
आनाय । इति "आनायो जालम् " [ १३६ ] इति निपात्यम् ॥
२ सी णो नं. डी गोपि. ३ डी ते सुखे.
१ प दुर्म.
हिनां । हे.
१ ए सी डी हवाः क्रि, २ डी 'गोपि च.
४ डी
३ सी नी । अना..