________________
१३२ व्याश्रयमहाकाव्ये
[ जयसिंहः] त्रीत्वेन गोचर इत्यर्थः । यद्वा शुचिः शोको म्लायतिर्लानिः खेदिदैन्यं धात्वर्थास्तेषामाधारत्वेन विषयः ॥
यच्चानीपत्करं कृत्यं तत्रापीषद्वचं त्वया ।
सुवचं दुर्वचमपि सजनैर्हि सतां पुरः ॥ ३५ ॥ ३५. अनीषत्करं च न केवलं सुखसाध्यं दुःखसाध्यं च यत्कृत्यमास्ते तत्रापि विषये त्वयेषद्वचमनायासेन वक्तव्यं दुःसाध्यमपि निःशङ्कमुच्यतामित्यर्थः । हि यस्मादुर्वचैमपि कष्टहेतुत्वादुःखेन वाच्यमपि सतां साधूनां पुरः सज्जनैः सुवचमुभयेषामपि साधुत्वेनैक्यात् ॥
ईषन्मलानंभवं स्वातैभवं वा दुःस्थिरंभवम् ।
कसात्त्वया त्वदा, यदीपदाकरोस्म्यहम् ॥ ३६ ॥ ३६. यद्यस्मात्त्वदाा काहमीषदाईकरोनायासेनार्द्रचित्तीक्रियेतिपीड्य इत्यर्थः । तस्मादहो नर त्वं वदेतिगम्यते । कस्माद्धेतोस्त्वयेषन्म्लानंभवमीषदनायासेन म्लानीभूयते स्वार्तभवं वा सुखेनार्तीभूयते च । दुःस्थिरंभवं वा विमनस्कत्वेनात्र दुःखेन स्थिरीभूयते च॥
सुविक्लवंकरः कच्चिदसिदुर्विक्लवंकरैः। द्विद्भिदुःशासनैर्दुर्योधनैर्दुर्दर्शनैरथ ॥ ३७॥ ३७. कच्चिदिष्टपरिप्रश्ने । असि त्वं द्विडिः शत्रुभिरथ किं सुविक्लवकरः सुखेन विक्लवीक्रियसे परिभूयस इत्यर्थः । किंभूतैः । दुर्द
१ ए सी डी ध्यं च. २ डी येष°. ३ ए सी डी 'चनम०. ४ बी सी डी दाद्रक. ५ ए सी डी स्वातांभ. ६ ए सी डी च । दुस्थि. ७ए सी डी से भू.