________________
[है. ५.३.१३५.] त्रयोदशः सर्गः।
ऊचे शुष्काखरानायगतमीनातुरं नरम् ।
क्षरत्सुधोदकरसोपममितभृताखनः ॥ ३२ ॥ ३२. राजा नरमूचे । कीदृक्सन । सुधोदच्यतेनेन सुधोदकस्तस्य रसः सुधैव क्षरन्यः सुधोदकरसस्तेनात्याह्लादकत्वादुपमा यस्य तत्तथा यस्मितमीषद्धास्यं तेन भृता आखनाः खानकानि येन स तथा । किंभूतं नरम् । शुष्काखरः शुष्काखानकमानायो जालं द्वन्द्वे तयोर्गतः पतितो यो मीनस्तद्वदातुरमाकुलम् ।। यदूचे तदाह ।
उदकोदश्चनी कस्त्वमत्राख विषमे तटे । स्वभासाखनिकवकान् व्योमाखानं च पूरयन् ॥ ३३ ॥ ३३. आखविषमे खानकैर्विषमेत्र तटे कूपतीरे कस्त्वम् । कीदृक् । स्वभासा स्वकान्त्याखनिकवकान्खानकानि व्योमाखानं चाकाशमेव खानकं च पूरयंस्तथोदकोदञ्चन्युदकोदञ्चनयुक्तः ।।
सुलभापदि देशेमिन्महाखनिकदुर्गमे ।
शुचिम्लायतिखेदीनां विषयः का न्वियं च ते ॥ ३४ ॥ ३४. अस्मिन्देशे प्रदेशे ते तव संबन्धिनीयं प्रत्यक्षा स्त्री च का नु का । किंभूते । महासनिकैर्दुर्गमं दुःखेन गमनं यत्र तस्मिन्नत एव सुलभेन सुखप्राप्त्या प्रधाना आपदो यत्र तस्मिन् । किंभूतेयम् । शुचिम्लायतिखेदीनां शुचीति म्लायतीति खेदीति शब्दानां विषयः शुच्-म्ला-खिद्-धातूनां शोचति म्लायति खिद्यत इत्यादिप्रयोगेषु क१ बी हाखानि'. २ बी चिप्लाक्य.
१ सी डी धोदुच्य. २ ए सी डी शुष्कख'. ३ ए सी डी शुष्कखा. ४ डी कानि. सी कान्वन. ५ ए सी डी नी प्र. ६ सी चते म्ला.