SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३० व्याश्रयमहाकाव्ये [जयसिंहः] अवतार्याः । अवस्तार । इत्यत्र "अवात्तृस्तृभ्याम्" [१३३ ] इति घन् ॥ बहुलाधिकारादसंज्ञायामपि । अवतार । भावेत्र घञ् । उत्पूर्वादपि । उत्तारे ॥ शुक्संहारः कृपाधारो गुणावायोथ भूपतिः । वचः कुञ्ज लतोद्यावे श्रुत्वेत्यभिससर्प सः ॥३०॥ ३०. अथ स भूपतिर्जयसिंह इति पूर्वोक्तं वचः श्रुत्वा लतोद्याव उद्यूयन्ते तिलादयोस्मिन्नुद्यावो यज्ञपात्रं लतानामुद्याव इव वल्लीनामाधार इत्यर्थः । कुञ्ज वनगहनेभिससाभिमुखं ययौ । यतः कीदृक् । शुचः शोकस्य संहारो मधुरवचनादिना प्रलयकालतुल्यस्तथा कृपाधारः कृपालुः । कृपाधारोपि यदि शौर्यादिगुणहीनः स्यात्तदा तत्र गन्तुं न शक्नुयादित्याह । गुणावाय एत्य वयन्त्यत्रावायेस्तन्तुवायशाला गुणाः शौर्यादय एव गुणास्तन्तवस्तेषामावाय इव ॥ तत्र खदारसंतुष्टो न्यायाध्यायो ददर्श सः । अजारचेष्टितं द्वन्द्वमवहारालयोपमः ॥ ३१ ॥ ३१. अवहारालयो ग्राहाकरोब्धिस्तेनोपमा यस्य स तथाब्धिगम्भीरः स राजा तत्र कुजे द्वन्द्वं स्त्रीपुरुषमिथुनं ददर्श । कीदृशम् । न जाराणां चेष्टितं चौर्यरतव्यञ्जिका व्याकुलत्वादिचेष्टा यस्य तत् । न च वाच्यमसौ कामवासनया स्त्रीदर्शनाभिलाषेणेतद्ददर्श । यतः स्वदारसंतुष्टः । एतदपि कुत इत्याह । न्यायाध्यायो न्यायस्याध्याय इव मूर्त नीतिशास्त्रमिवेत्यर्थः ॥ न्यायं । आवायः । अध्यायः । उद्यावे । संहारः । अवहार । भाधारः । दार । जार । इत्येते "न्याय." [१३४ ] इत्यादिना निपात्याः ॥ १ए वात्तुस्त . बी वातृस्तृभ्या . २ सी यशा'. ३ ए सी डी गुणा शौ'. ४ बी णाः सौर्या'. ५ बी न्यायध्या'. ६ बी य । अवा. ७ सी डी °ध्याय । उ. ८ ए बी सी हारः । आ.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy