________________
[है. ५.१.११] एकादशः सर्गः। कैः कैरित्याह । वाप्यैर्वस्तुभिर्द्राक्षाफलादिभिर्लाव्यैश्वावश्यं छेद्यैश्च वस्तुभिर्जातिपुष्पादिभिः । तानि हि नोप्यन्तेवश्यं त्रोट्यन्ते च। तथा डेप्ययाव्यैर्डेप्यैः प्रेर्यैः किंकरादिभिर्याव्यैश्चात्मना सह संबन्धनीयैः प्रियसख्यादिभिः स्वाङ्गेन संबन्धनीयैर्वस्त्राभरणादिभिर्वा । तथा जलासाव्यैर्जल आसाव्यानि भावेत्र ध्यण् । तैस्तीर्थस्नानैरित्यर्थः । तथाचाम्यैर्भक्ष्यैः परमान्नादिभिः । किंभूतैः।राप्यालाप्यरसाञ्चितै राप्या माधुर्यादिगुणोपेता अमी इति सामान्येन वक्तुं शक्या अलाप्याश्चैतावन्मात्रमाधुर्यादिगुणा अमी इति विशेषतो वक्तुमशक्याश्च ये रसा माधुर्यादयः । उक्कं च ।
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि ने तदाख्यातुं सरस्वत्यापि पार्यते ॥ १ ॥ तैरञ्चितैर्युक्तैः । सर्वैरप्येतैः कीदृशैः । तस्यास्तु देव्याः पुनर्वाक्येनामुकस्मिन्फलादौ ममेच्छेति वाचा समवसन्युर्मेलनीयैः । तथा दिवोपि स्वर्गादपि पाणिभ्यां सृज्यते क्रियते पाणिसा तया रज्ज्वेव कृष्टैराकृटैरतिदुःप्रा(दुष्प्रा)पैरपीत्यर्थः । नन्वनेनैषां दिवोप्याकृष्टिः कुत इत्याह । यतो युध्यनानाम्यो देवैरपि नमयितुं जेतुमशक्यः ॥
नापत्राप्यं त्वया दाभ्यो नेच्छयात्मेति तां ब्रुवन् । अमावास्यायमेवामावस्येन्दुमपृणन्नृपः ॥७॥
१ बी °वश्येन्दु'.
१५ करोदि. २ ए यैवस्त्रा'. ३ ए सी डी सार्ज'. ४ ए सी डी 'साधानि. ५ ए सी डी चान्यैर्भ. ६ ए रापाला. ७ ए सी डी
क्या आला. ८ सीत् । तदा. ९ ए नदा त०. १० ए °तुं रसस्व. ११ ए °तिदुप्रा०, १२ सी डी नन्वेषां. १३ ए वोथा कृ. १४ ए °ह । अतो.. १५ सी नमिथितुं, ए °मथितुं.