________________
१२८
द्व्याश्रयमहाकाव्ये
[जयसिंहः
२६, २७. अस्मिन्कूपे त्वं वेक्ष्यसि प्रवेक्ष्यस्यहमीक्षिष्येतश्च बकचेष्टिता बकवृत्तीः स्त्रियो धिग्गहें । यदि खियो बकवन्मायाविन्यो नाभविष्यंस्तदाहं स्त्री तव प्राणेभ्योप्यतिप्रिया त्वत्पुर एव कूपे प्रा. वेक्ष्यमित्यर्थः । किंभूतेस्मिन् । ऊषाकरे द्रवरूपक्षारद्रव्यविशेपस्य स्थाने तथा प्लवानहें तिसंकीर्णत्वात्प्लवेनोडुपेन तरीतुमशक्य इत्यर्थः । तथा नास्ति संचरः प्रवेशमार्गो यत्र तस्मिंस्तथातिनिम्नत्वादत्यन्धकारवत्त्वान्मक्षिकातिव्याप्तत्वाच्चागोचरोविषयोदृश्य इत्यर्थः । व्यज ऊपाकर्षणाय रज्जुबद्धघट्यादीनां निक्षेपमार्गो यत्र तस्मिंस्तथा वहाभा गोस्कन्धदेशतुल्याः स्कन्धा यासां तास्तथा वज्रास्या वज्रवत्तीक्ष्णप्रचण्डवक्रा या मक्षिकास्तासां व्रजेन समूहेन संकुले व्याप्तेत एवापदापणे क्रयाणकवत्सुप्राप्यत्वाद्विपदा हटेत एव च खलस्य मृत्योर्निगमे मार्गतुल्ये पत्तनतुल्ये वा ॥
सत्त्वाकपो धीनिकषो ममासौ कुलयोः कषः । सुभगोपस्थितापचे ज्वलनिपकदारुणा ॥२८॥
२८. हे सुभग निपचन्त्यनेन निकः कुलालभाण्डपाकस्थानम् । ज्वलन्योसौ निपकस्तद्वदारुणा संतापिकासौ प्रत्यक्षा ते तवोपस्थितापन्मम सत्त्वाकपः सत्त्वस्य परीक्षोपलस्तथा धीनिकषो बुद्धिपरीक्षोपलस्तथा कुलयोर्मातापितृपक्षयोः श्वशुरपितृपक्षयोर्वा कपः । अस्यां विपदि त्वदनुगमनेन नियूंढाया मम सत्त्वादीनि प्रमाणीभविष्यन्तीति भावः ॥
१ ए सी डी वेशानि. २ डी पाकारे. ३ बी थानि'. ४ ए त्वागो'. सी डी त्वादगो. ५ ए सी डी वज्रा. ६ डी °ल्ये वा. ७ डीग विप. ८ डी °न विप. ९ ए डी पकस्त. सी पङ्कस्त°. १० वी श्वसुर . ११ ए ०३: । कार.