________________
[ है० ५.३.११५. ]
त्रयोदशः सर्गः ।
१२३
पर्येषणया । परीष्ट्या । अध्येषणा । अनधीष्टि । इत्यत्र "पर्यधेर्वा" [ ११३]
1
1
इति वानः ॥
क्रुधा काकयुदुद्धूके कुञ्जेथाभीः स भीतिदे | समसंपद्विपद्भूप इति दीनं वचोशृणोत् ॥ १७ ॥
१७. अथ स राजा कुले वनगहनमध्य इति वक्ष्यमाणं दीनमार्तं वचोशृणोत् । कीदृक्सन् । समे तुल्ये संपद्विपदौ यस्य स तथा महापुरुपत्वात्संपद्यहृष्यन्विपदि चाविपादीत्यर्थः । अत एवाभीः । किंभूते कुजे । भीतिदे भयप्रदेपि । यतः कुधा हेतुना काकयुधि काकैः : सह रण उदुद्यता घूका यत्र तस्मिन् ॥
।
यद्वचोशृणोत्तदाह ।
नाथोज्झसि किमीम हीनं त्यक्त्वा मया कृताम् |
व्यावभाषीं व्यतीहां च व्यतीक्षां चास्मरनिव ॥ १८ ॥
१८. हे नाथाविद्यमाना ह्रीर्मत्यागविषया लज्जा यस्य सोही: संस्त्वं ह्रीतिं लज्जां त्यक्त्वा मां किमित्युज्झसि । कीदृगिव । अस्मरन्निव । काम् । मया कृतां व्यावभाषी विनिमयेन प्रेमालापं तथा व्यतीहां विनिमयेन नखक्षतादिस्मरचेष्टा च तथा व्यतीक्षां च विनिमयेन कटाक्षैरीक्षणं च । एकान्तानुरक्तां स्वप्रेयसीं मामजानन्निवेत्यर्थः ॥
क्रुध । युत् । संपत् । विपत् । इत्यत्र “ॐत् ० " [ ११४ ] इत्यादिना क्विप् ॥
१ ए सी डी 'हीमां ही २ प सी डी 'तीक्षा च.
१ए अध्यैष.
२ ए सी डी 'लापां त'. ३ बीष्टांत. ४ सी डी ५ ए सी डी 'धा । यत्.
'रक्तास्व'.