SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२२ व्याश्रयमहाकाव्ये [ जयसिंहः ] वन्दनोपासने कृत्वा तां नदीमुत्ततार । किंभूताम् । पादाभिघट्टनया पादाक्रमणेनोदुच्छलन्त्यूमिश्रन्थना कल्लोलरचना यस्यां ताम् ।। क्षमाम् । अत्र "षितोइ" [ १०७ ] इत्यङ् ॥ भिदाच्छिदे । “भिदादयः" [ १०८ ] इति साधू ॥ भीपाम् । भूषः । चिन्ता । पूजा। कथा । कुम्बाः । चर्चा । स्पृहा । तोल । दोला । इत्यत्र "भीषि०" [ १०९] इत्यादिनाङ् ॥ अप्रमाः । अत्र "उपसर्गादातः” [ ११० ] इत्यङ् ॥ कामनया । अवेदनः । उपासने । अन्यनाम् । अभिघटना । वन्दना । इत्यत्र "णिवेत्ति” [ १११] इत्यादिनानः ॥ ग्रन्थेरपीत्यन्ये । ग्रन्थना ॥ आश्चर्यान्वैपणेष्ट्या चार्तपर्येषणया च सः । परीष्ट्याध्येपणाभाजां चाटत्तीरेनधीष्टिकृत् ॥ १६ ॥ १६. स राजा तीरे नदीतट आटदभ्राम्यत् । कैर्हेतुभिः । आश्चर्यान्वेषणेश्या चाश्चर्यविलोकनेच्छया चार्तपर्येषणया च पीडितानां विलोकनेन च । तथाध्येषणाभाजां सत्कारपूर्वो व्यापारोध्येषणा । तद्भाजां मुनीनां परीष्टया च शुश्रूषणया च । न च वाच्यमसौ द्रव्येच्छया कस्यापिच्छलं वीक्षितुमत्राटद्यतो नाधीष्टिं यानां करोत्यनधीष्टिकृनिर्लोभत्वात्कस्यापि किमप्यगृह्णन्नित्यर्थः ॥ अन्वेषणा । इत्यत्र "इयोनिच्छायाम्" [ ११२ ] इत्यनः ॥ अनिच्छायामिति किम् । इष्टया ॥ १ डी चाश्चर्यवि. १ ए भूष । चि०. २ बी कथाः । कु. डी कथां । कु. ३ सी डी कुम्बा । च. ४ वी 'न्थनं । अ. ५ ए सी डी 'ना । वेदना. ६ वी °षणाय च. ७ डी घ्या अध्ये. ८ एम् । इष्टया.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy