SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ है. ५.३.१०७.] त्रयोदशः सर्गः। १२१ प्रशंसाम् । जुगुप्साम् । अत्र "शंसि." [१०५] इत्यादिना-अः ।। ईहाम् । अत्र “केटः०" [ १०६ ] इत्यादिना-अः ॥ क्षमां भिदाच्छिदाभीपां सोसिभूपो व्यलङ्घयत् । पूर्वाद्भुतकथाचिन्ताचर्चापूजास्पृहापरः ॥ १३ ॥ १३. स नृपो भिदाच्छिदाभीषां पशुमत्स्यादिविदारणद्विधाकरण रौद्रां क्षमा पूर्वाह्यचण्डालमात्सिकादिसंबन्धिभूमि व्यलङ्घयत् । कीदृक् । असिना भूषा यस्य सोसिभूपस्तथा पूर्वेषां रामादीनामद्भुता याः कथास्तासां या चिन्ता स्मरणं चर्चा मनसि विचारः पूजा वहुमानः स्पृहेच्छा तत्परः ॥ अदोलातोलचित्तः सोप्रमाः कुम्बाश्च लङ्घयन् । चित्रकामनया प्राप नदी ब्राह्मीमवेदनः ॥ १४ ॥ १४. स राजा चित्रकामनयाश्चर्याभिलाषेण ब्राह्मीं नदी सरस्वती प्राप । कीहक्सन् । न दोलायाः प्रेङ्खायास्तोला साम्यं यस्य तचित्तं यस्य सः । सात्विकत्वान्निश्चलचित्तोत एवावेदनो भयोत्थदुःखरहितोत एवाप्रमाः प्रमाणरहिता असंख्याः कुम्बाश्च न केवलं भिदाच्छिदाभीषां क्षमा सुगहना यज्ञवृत्ती(ती?)श्च लङ्घयन् ।। वन्दनोपासने कृत्वा सोञ्जलिग्रन्थनादिभिः । पादाभिघट्टनोदुर्मिश्रन्थनामुत्ततार ताम् ॥ १५ ॥ १५. स राजाञ्जलिग्रन्थनादिभिरञ्जलिरचनास्नानादिभिः कृत्वा १ ए त्वा तां नदी. १ ए पो सिदा. २ बी 'रणाद्वि'. ३ डी रणे सै०. ४ बी मात्स्यका'. ५ ए सी डी भूमिमभ्यल'. ६ बी °स्य सः. ७ डीन् । चन्द. ८ डी 'त्वा चन्द'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy