SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२० ब्याश्रयमहाकाव्ये [जयसिंहः) १०. स्पष्टः । किं तु जनेच्छाकृत्ये लोकानामभिप्रायं चेष्टां च । गूढे आकृतिक्रिये आकारगमनादिचेष्टे यस्य स तथा भान्तर्धा भाया राज्यशोभाया अन्तर्धा गोपनं च ॥ मृगयापरिसर्येच्छुरिवच्छन्नपदः कचित् । परिचर्याकृतोटाट्यां जज्ञेटाटां परस्य च ॥ ११ ॥ ११. कचिच्च राजा परिचर्याकृतो भक्तस्याटाट्यां गतिं जज्ञे निःशङ्कत्वादिगुणैातवान् । परस्य च शत्रोश्चाटाटां गतिं साशङ्कत्वादिना जज्ञे । कीदृक्सन् । छन्नावलक्षितौ पादौ पादन्यासौ यस्य सोज्ञात इत्यर्थः । मृगयाखेटेस्तदर्थं परिसर्या परिगमनं तदिच्छुर्लुब्धको यथा छन्नपदः स्यात् ॥ क्रियः कृत्ये । अत्र "कृगः श च वा" [१०] इति शो वा चकाराक्यप् च ॥ पक्षे । आकृति । मृगया । इच्छा । यात्राम् । तृष्णाम् । कृपाम् । भा। श्रद्धाम् । अन्तर्धाम् । एते "मृगयेच्छा." [१०] इत्यादिना निपात्याः ॥ . परिसर्या । परिचर्या । इत्यत्र "परेः०" [ १०२ ] इत्यादिना मः ॥ अटाट्याम् । अटाटाम् । अत्र "वाटाट्यात्" [१०३ ] इति वा यः ॥ जागर्यया निशार्धस्य ज्ञात्वेहां जागरावताम् । प्रशंसां च जुगुप्सां च कुर्वन्स निरगात्पुरात् ॥ १२ ॥ १२. स्पष्टः । किं तु प्रशंसां विद्याभृत्यादेः । जुगुप्सां चच्छअवतां चरादीनाम् ।। - जागर्यया । जागरा । इस्यन्न "जागुरश्च" [१०४ ] इति । यश्च ॥ .१ए त्वारिगु. २ बी टकस्त°. ३ ए गुरुश्च. सी डी गुरेश्च. ४ बी अः । अश्व.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy