SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११८ व्याश्रयमहाकाव्ये [जयसिंहः या जूतिर्गतिस्तया सासुतिभिः सह मिलित्वा गमनेनेत्यर्थः । कीदृक् । कीर्तीप्सुस्तथा हेतीनामस्त्राणां सातिः पिंगु बन्धने। सीयते सातिः संबंन्धस्तद्वान् । संपीत्या मत्तसंगीतौ कचित्स्वगुणकीर्तनाम् । शृण्वन्ननास्थया चक्रे नानपक्तिमवस्थितिम् ॥ ७ ॥ ७. संपीत्या सहपानेन कृत्वा मत्तानां मद्यपानां संगीतिः सह. गानं यत्र तस्मिन्मत्तसंगीतो कचित्स्थानेन्नपक्तिं यावता कालेनानपाकः स्यात्तावन्तमपि कालमवस्थिति राजा न चक्रे । कीहक्सन् । स्वगुणकीर्तनां शृण्वन् । कया नास्थात् । अनास्थया महापुरुषत्वेन स्वगुणेष्ववहेलया ॥ समितिम् । सासुतीनाम् । अत्र "सम्०" [ ९३ ] इत्यादिना क्तिः ॥ साति । हेति । यूत्या । जूत्या । जय । कीर्ति । इत्येते "साति." [ ९४ ] इत्यादिना निपात्याः ॥ कीर्तनाम् । इत्यपि कश्चित् ॥ संगीतौ । संपीत्या । पक्तिम् । अत्र "गापा०" [ ९५] इत्यादिना क्तिः ॥ अवस्थितिम् । अनास्थया । अत्र “स्थो वा" [ ९६ ] इति वा क्तिः ।। प्रव्रज्येज्याजुषामास्यासमज्याखड्यया च सः । विद्याभृत्यान् कचित्पश्यन्मेने चर्याफलं महत् ॥ ८ ॥ ८. स राजा चर्याफलं महन्मने । कीहक्सन् । कचिद्विद्यैव भृत्या वेतनं येषां तान्विद्याभृत्यान्यज्ञविद्योपजीविनो महायाज्ञिकानित्यर्थः । पश्यन् । कया । अट्यया भ्रमणेन । कासु । प्रव्रज्येज्याजुषां प्रव्रज्यां दीक्षाविशेषमिज्यां च यागं च सेवमानानां यज्ञोपाध्या १ ए सी डी तिः पिगृ. २ सी डी बद्धस्त. ३.सी डी पावकः. ४ सी डी गं से'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy