SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [जयसिंहः ] न्यायम् । अत्र "इणोपे" [७५] इति घञ् ॥ अभेष इति किम् । न्ययम् ॥ पर्यायः । अत्र "परेः कमे" [ ७६ ] इति घञ् ॥ अस्थाश्रमविशायः । राजोपशाय । अत्र "न्युपाच्छीङः" [ ७७ ] इति पञ् ॥ वसन्ततिलका छन्दः ॥ पुष्पावचायसुफलोच्चयपल्लवाद्यो ञ्चायैरचार्यकुसुमावचये वने तैः। आकायचिद्भिऋषिभिर्विहितातिथयः स्थित्वा नृपो निजनिकायमगात्सुकायः ॥ ८१ ॥ १. सुकायः शोभनमूर्तिर्नृपो निजनिकायं स्वावासमगात् । किं कृत्वा । चौराणामुच्छेदादविद्यमानश्चौर्येण कुसुमानामवचयस्रोटनं यत्र तस्मिन्वने स्थित्वोषित्वा । यत आकायं यज्ञाग्निभेदं चिन्वन्त्याहुतिभिरुपचितीकुर्वन्ति ये तैर्यायजूकैरित्यर्थः । तैः प्रसिद्धैषिभिर्विहितातिथेयः कृतातिथ्यः । कैः कृत्वा । पुष्पावचायसुफलोच्चयपल्लवाद्योच्चायैर्भावानयने द्रव्यानयनमित्यवचीयमानैः पुष्पैरुच्चीयमानैः सुफलैरुच्चीयमानैः पल्लवाद्यैः पल्लवपत्रादिभिश्चेत्यर्थः ॥ पुष्पावचाय । पल्लवाद्योच्चायैः । अत्र "हस्त.” [ ७८] इत्यादिना घञ् ॥ उदो नेच्छन्त्यन्ये । फलोचय । अस्तेय इति किम् । अंचौर्यकुसुमावचये ॥ भाकाय । सुकायः । निकायम् । अत्र "चिति." [७९] इत्यादिना घम् । आदेः कश्च ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा. भिधानशब्दानुशासनद्याश्रयवृत्तौ द्वादशः सर्गः समर्थितः ॥ १बी द्भिऋषि'. २ बी थेय स्थि'. १एम् । न्याय. २ बी शायः । अ. सी डी शायः । इत्यत्र. ३ ए सी रुषि'. बी दैऋषि'. ४ डी लवप. ५बी चयः । .डी चयं । . ६ए अचोर्य.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy