________________
११२
व्याश्रयमहाकाव्ये [ जयसिंहः] रभाजः प्रस्तारं सामगणनाङ्गभूतानामुदुम्बरकाष्ठकुशानां रचनाविशेष भजन्तः ॥ परिभावं परिभवः । अत्र "भुवोवज्ञाने वा" [ ६४ ] इति वा धम् ॥ परिग्राह । इत्यत्र “यज्ञे ग्रहः'' [ ६५] इति घञ् ॥ संस्ताव । इत्यत्र "संम्नोः" [ ६६ ] इनि घञ् ॥ प्रेस्रावैः । अप्रद्रावाः । प्रस्तावे । अत्र "प्रात्स्रुद्रुस्तोः' [ ६७ ] इति घञ् ॥
प्रस्तार । इत्यत्र "अयज्ञे स्वः” [ ६८ ] इति घञ् । प्रस्तारो हि सामर्गणनाङ्गं न तु यज्ञाङ्गमिति घञ् ॥ अयज्ञ इति किम् । बेहि प्रस्तरैः ॥
विस्तारे । अत्र "वे०" [ ६९] इत्यादिना घञ् ॥ प्रथन इति किम् । लताविस्तरे ॥ अशब्द इति किम् । ऋग्विस्तरेण ॥ वैश्वदेवी छन्दः ॥ विप्रा विष्टारास्तारपङ्मयादिगीतेर्विश्रावोद्गारान्कुर्वतां निर्निगाराः । नीवारोत्काराच्यामकानां निकारांचोचैर्विक्षावा निर्भया निर्खनन्तु
॥७९ ॥ ७९. विप्रा निर्निगारा निगाराद्रक्षोभक्षणानिर्गताः सन्तो विश्रावोद्गारान् विश्रावान्विविधश्रवणान्युद्गारांश्वोच्चारणानि च कुर्वतां कुर्वन्तु । कस्याः । विष्टारास्तारपङ्क्त्यादिगीतेर्विष्टारास्ताराभ्यां परे ये पक्षी ते आदी यस्याः सा या गीतिश्छन्दस्तस्या विष्टारपत्याख्यस्यास्तारपक्याख्यस्य च छन्दस इत्यर्थः । यद्वा । यस्या आदौ विष्टारपङ्किरास्तारपङ्क्तिश्वच्छन्दोविशेषौ स्तस्तस्या गीतेः सामविशेपस्येत्यर्थः । तथा नीवारोत्कारान्वनव्रीहिसमूहाञ् श्यामकानामारण्यकधान्यभेदानां च निकारांश्च राशींश्च निर्गुनन्तु । किंभूताः सन्तः । निर्भया रक्षोभयरहिता अत एवोच्चैरुदात्तो विक्षावैश्छिक्का येषां ते ॥
१ ए सी डी गणाना. २ ए सी डी रिभावः. ३ ए सी डी प्रस्तावैः. vडी गणाना. ५ ए सी बहिष्प्र. ६ बी भयानि. ७ सी डी वस्थिक्का.