________________
[ है.५.३.६४] द्वादशः सर्गः। अवनायात् । इत्यत्र "भवात्" [१२] इति घम् ॥
शारीपरिणाय । इत्यत्र “परे ते" [ ६३ ] इति घम् ॥ उपजानिश्छन्दः ॥ संस्तावपरिग्राहभागृषीणामपरिभवः परिभावमेष चक्रे । तत्क्षान्त्वासौ मुच्यतां पतिर्मे प्रस्तावे ते पत्तितां हि कता ७७
७७. एष बर्वरो न विद्यते शत्रुभ्यः परिभवो यस्य स तथा सन् परिभावं न्यक्कारं चक्रे। केषाम् । समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगाः स यज्ञदेशः संस्तावस्तस्य यः परिग्राहः स्वीकारस्तं यद्वा संस्तावं च परिग्राहं च वेदेर्यज्ञाङ्गभूताया प्रहणविशेष भजन्ते य ऋषयनेषाम् । तदृषीणां परिभवरूपं कुकर्म । शिष्टं स्पष्टम् ॥ औपछन्दसिकापरान्तिका छन्दः ॥ अप्रद्रावाः प्रस्तारभाजः सहाज्यप्रेस्रावैर्वहिष्प्रस्तरैश्चात्र तीरे । राजविस्तारे सल्लताविस्तरेद्य द्राकुर्वन्त्वेते यज्ञमृग्विस्तरेण ॥७८ ॥
७८. अद्य सांप्रतमत्र सारस्वते तीर एत ऋत्विज ऋग्विस्तरेण ऋचां मत्रविशेषाणां विस्तीर्णतया द्राग्यज्ञं कुर्वन्तु । किंभूते । सहाज्यप्रस्रावैर्हव्यघृतक्षरणयुक्तैः ख़ुग्भ्यः क्षरितेन घृतेन युक्तरित्यर्थः । बर्हिष्णस्तरैर्दर्भसंस्तरणैः कृत्वा राजद्विस्तारे शोभमानविस्तीर्णत्वे तथा सन्तः शोभना लतानां विस्तराश्छादनानि यस्मिंस्तत्र लतामण्डपोपेते । किंभूताः सन्तः । अप्रद्रावा भयाभावात्पलायनरहितास्तथा प्रस्ता
१ ए अपद्रा'. २ ए सी डी प्रस्तावै.
१बी तिच्छन्दः. २ ए सी डी 'रिभावो. ३ ए सी डी 'वसुरुप्रयः. ४ सी डी वं प. ५ बी रिग्रहं. ६ ए °च्छदःसका. सी डी °च्छन्दसका. ७ ए सी डी तीरे त. ८ ए सी डी प्रस्तावै . ९ए स्रुप्यः क्ष०. सी सुप्य क्ष. डी सुप्यक्षारि०. १०बी रैर्भवमं० ११ए सी डी विस्तारा'.