________________
[ है० ५.३.४४.] द्वादशः सर्गः। हसकृत्त्विषा हासकृतोस्य मूर्ध्नि कणवानसिः काणवति द्विधाभूत् । नृप उत्स्वनः स्वानकृताथ तेन युयुधे भुजाभ्यां विहितारवाभ्याम्
॥७१ ॥ ___ ७१. त्विषा कान्त्या कृत्वा हसकृद्धसन्निवासिर्जयसिंहखगोस्य बर्बरस्य काणवति खड्गघातेन सशब्दे मूर्ध्नि कणवान् शिलातुल्ये मूास्फ(स्फा?)लनाद्भङ्गाच सशब्दः सन्द्विधा द्विखण्डो बभूव । "विचाले च" [७. २. १०५] इनि धा । अत एव कीदृशोस्य । हासकृत उपहासकारिणः । अथासिभङ्गानन्तरं नृप उत्स्वन उद्गतसिंहनादः सन्स्वानकृता तेन बर्बरेण सह विहितारवाभ्यां मिथःसंघटेन कृतशब्दाभ्यां भुजाभ्यां कृत्वा युयुधे ।। नृभुजस्तदाराव्यसृगाप्लवं सोजनयद्भुजप्रंग्रहबन्धमूढात् । नृपतिर्जलाप्लावमवग्रहास्तं जलदादवग्राहजयी ग्रहो नु ॥ ७२ ॥
७२. तदा नृपतिर्नूभुजो बर्बरादारावी संभारेण पातात्सशब्दो योसृगाप्लवो रक्तौघस्तमजनयदुदपादयत् । यतः किंभूतात् । भुजावेव वन्धहेतुत्वात्प्रग्रहो रज्जुस्तुलासूत्रं वा तेन गो बन्धस्तेन मूढान्मूर्छितात् । यथावग्रहास्तं वृष्टिप्रतिबन्धेन रुद्धं जलाप्लावं वृष्टिमवग्राहजयी वृष्टिंप्रतिबन्धस्य जेता ग्रहः सूर्यादिर्जलदाजनयति ॥ प्रयाहवान्प्रावरदस्रधारोच्छ्रायस्य तस्य प्रवरत्प्रभौषः । प्रावारवद्राग्भुजयोः समुच्छ्रय्युद्यावमुद्रावकरोकरोद्राट् ॥७३॥
१ ए सी डी ताव ते°. २ ए °प्रगृह°.
१ सी डी ङ्गात् स. २ ए बी भूवे खण्डे ब. ३ सी कृभुजाभ्यां स. शब्दाभ्या कृत्वा. डी कृभुजाभ्या सशब्दाभ्यां कृत्वा. ४ ए सी डी तिर्भूभु. ५ बी प्रब.