SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०६ व्याश्रयमहाकाव्ये [जयसिंहः ] ६९. समाहूयन्ते प्राणिनोत्रेति समाह्वयः कुक्कुटादियुद्धद्यूतं कौतुकार्थिलोकमेलापकहेतुत्वादङ्गाङ्गमहायुद्धहेतुत्वाच्च तत्तुल्य आहवमूर्ध्नि रणमस्तके स नृपो बर्बरकाह्वयेन सहादीव्ययुद्धक्रीडयाक्रीडत् । कीदृक् । परिघन्तावर्गले इवाचरन्तौ भुजौ यस्य स तथा । तथा विहवोन्मुखः स्पर्धायामभिमुखो निहवोन्मुखश्च सिंहनादाभिमुखश्च सन् । कीदृशा सता । सोपहवेन सस्पर्धेनाभिहवोन्मुखेन च सिंहनादेच्छुना च ॥ परिघ । इत्ययं "परेघः' [ ४० ] इति निपात्यः ॥ समाह्वये । आह्वयेन । इत्येतो "हः." [ ४१ ] इत्यादिना निपात्यौ ॥ निहव । अभिहव । उपहवेन । विहव । इत्यत्र "न्यभि०" [१२] इत्या. दिनाल । वाशब्दश्चोकारः स्यात् ॥ आहव । इत्यत्र “आडो युद्धे" [ ४३ ] इत्यल । वाशब्दश्वोकारः ॥ जपकृयधाहावसदृग्रदालेर्हवक राहायकृदुन्मदस्य । गतयामतुर्ये यमवद्वधेच्छुर्नृपतिळधान्मूय॑सिनास्य घातम् ॥७०॥ ७०. नृपतिरस्य बर्बरस्य मू_सिना घातं व्यधात् । कीहक्सन् । आह्वायकृत्स्पर्धावांस्तथास्य वधेच्छुर्यथा गतयामस्य यातयामस्य वृद्धस्य तुर्ये वृद्धावस्थायाश्चतुर्थे भागे यमो वृद्धस्य वधेच्छुः स्यात् । यतः कीदृशस्यास्य । जपकृतां मुनीनां व्यधो हिंसा यतः सा तथाहावसहक्काहावो निपानं यस्य पार्श्वभागे जलावष्टम्भाय काष्ठानि पाषाणा वा बध्यन्ते तद्वत्स्थूलोन्नता च रदालिदन्तपतिर्यस्य तस्य तथोन्मदस्य बलाद्यवलेपेन मत्तस्यात एव हवकर्तुः स्पर्धाकृतः ॥ - १ ए सी डी धेन्नु . १ ए न्मुखेन च. २ सी डी श्च सन्. ३ बी स्य मू. ४ बी धयंस्त. ५ सी डी तथो०. स्प
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy