________________
१०४
व्याश्रयमहाकाव्ये
[जयसिंहः]
६६. स नृभुपाक्षसो वर्वरो रणप्रघाणे रण एव कातरबालैर्दुलध्यत्वात्प्रघाणो द्वारालिन्दकस्तत्र प्राट वभ्राम । कीदृक् । यमस्य यद्धीष्म रौद्रं वेश्म तस्य प्रघणे द्वारालिन्दकतुल्ये मुखे वक्रेन्तर्घणराजमन्तर्घणाख्यदेशभेदनृपमन्तर्घनपानुजं चान्तर्घनदेशराजलघुभ्रातरं च निदधन्निक्षिपस्तथोद्धसंघैरुद्धानां प्रशस्यानां महाभटानां संधैः समूहैः सह सहितः । कीदृशैः । निविशेषेण हन्यन्ते ज्ञायन्ते निघास्तुल्यारोहपरिणाहास्तथोद्धन्यन्त एष्वित्युद्धना यत्रच्छेदनाय कुट्टनार्थं वा काष्ठान्याधीयन्ते तत्तुल्या अतिवलिष्ठा अनेकशस्त्रघाताङ्किताश्चेत्यर्थः । अंसाः स्कन्धा येषां तैः ॥ अगमन्नृपोपघ्नमथाभिगर्जन्स घनं घनोच्चापघनो घनो नु । ' विधनैः खगैः सूचितदुर्निमित्तो दुघनोग्रदंष्ट्रोरमयोधनांसः॥६७।।
६७. अथ द्रुघनोग्रदंष्ट्रः कुठाररौद्रदाढस्तथायोघनो घनस्तद्वन्निबिडावंसौ स्कन्धौ यस्य स तथा स बर्बरो नृपोपन्नं जयसिंहसमीपमरं शीघ्रमगमत् । कीदृक्सन् । वयः पक्षिणो हन्यन्ते यैस्तैर्विघनैः खगैगंध्रादिपक्षिभिः सूचितदुर्निमित्त उपरिभ्रमणेन ज्ञापितारिष्टः । तथा घनो नु मेघ इव घना निविडा उच्चा उत्प्लवनेनोन्नता अपघना अगावयवा यस्य सः । तथा घनं निरन्तरमभिगर्जन् ॥ अन्तर्घन । अन्तर्घण । इत्येतो "हनः" [३४] इत्यादिना निपात्यौ । प्रघणे । प्रघाणे । इत्येतौ "प्रघण." [३५] इत्यादिना निपात्यौ ॥
१ डी नोधनस्तद.
१ बी सी डी 'खे स्वव. २ ए सी डी 'नदे'. ३ सी डी निर्विशे'. ४ बी अंशाः स्क'. ५ सी डी यैवि. ६ बी नं बहुतरम . ७बी त्यौ । निघ । उ.