SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [है० ५.३.२६ ] द्वादशः सर्गः । १०१ वध्वाः पाणिग्रहण उद्यतोत एवैवमुक्तरीत्या विजयश्रियश्चोपयम उद्यतः । उपमानान्याह । अहिंसा सस्यमस्तेयं ब्रह्माकिंचनता यमाः । त एव विशिष्टा वियमास्तद्वान्वियमी यथा वियामे विशिष्टयमेध्वथाथ वा यथा नियमी । स्नानमौनोपवासेज्यास्वाध्यायोपस्थितिग्रहाः। नियमा गुरुशुश्रूषा शौचाचारक्षमा दश ।। यद्वा नियमाः शौचसंतोषः(पौ ?) स्वाध्यायतपसी अपि । देवताप्रणिधानं च । इति । तद्वान्यथा नियामे वाथ वा यथा च संयामी पञ्चास्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः चण्डत्रयविरतिश्चेति संयमः सप्तदशभेदस्तद्वांश्चोरुसंयम उद्यतः स्यात् ।। संयमे संयामी । नियमी नियामे । वियमी वियामे । उपयमे उपयामे । अत्र “संनिवि०" [२५] इत्यादिनाल्वा ॥ धनुषां निनादैनिनदैरिषूणां निगदैर्नृणां क्रव्यभुजां निगादैः। रथनिखनैस्तत्प्रतिनिकणैश्च जगदेकनिकाणमयं तदाभूत् ॥६२॥ ६२. स्पष्टम् । किं तु तत्प्रतिनिकणैस्तेषां धनुर्निनादादीनां व्यो. मादिषु प्रतिशब्दैः ॥ अथ चारणा विकणिवल्लकीका अतिवैणविकाणनिपाठयुक्ताः । निपठैः सुनिखानचयैश्च सूताः स्तवमादरान्निर्ममिरे भटानाम्६३ १ बी रिपूणां. २ बी निश्वनै०. ३ ए ममरे. १ बी स्थितन. २ ए बी डी शौचं सं°. ३ बी चावा. ४ बी यः दण्ड. ५ ए यमे । उ०. ६ ए संत्या. ७ सी डी 'नित्या. ८ डी नादी.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy