SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०० ढ्याश्रयमहाकाव्ये [जयसिंहः ] अध्याय । उपाध्यायी। उपाध्याया। इत्यत्र "इङः" [१९] इत्यादिना घञ् ॥ टिद्विधानसामर्थ्यात्नियां क्तिर्बाध्यते ॥ शारे । शार । नीशार । इत्यत्र "श्रो वायु०" [२०] इत्यादिना घञ् ॥ निष्पाव । अमिलावे । भत्र “निरभेः पूल्वः" [ २१ ] इति घन् ॥ करभाभिरावेभरवाश्वरावप्रभवेन शत्रुप्रघसं श्रयन्ती। क्षितिपप्रभावाश्रयतोथ सामुग्निघसामिपन्यादकृतोभितस्थौ॥६॥ ६०. अथ क्षितिपैप्रभावाश्रयतो जयसिंहप्रतापाश्रयणात्सा सेनासृग्निघसामिषन्यादकृतो रक्तपानमांसभक्षणकारिणो राक्षसानभितस्थावभिमुखं डुढौके । कीदृक्सती । करभाभिरावेभरवाश्वरावप्रभवेनोष्ट्रशन्दगजशब्दाश्वशब्दानामुत्पत्त्या कृत्वा शत्रुप्रघसं शत्रूणां भक्षणमिव श्रयन्त्यतिदुःखकृत् ॥ अभिराव । इत्यत्र "रो०" [ २२ ] इत्यादिना घञ् ॥ उपसर्गादिति किम् । रव ॥ राव । इत्यत्र बाहुलकाद्वञ् ॥ प्रभवेन । आश्रयतः । प्रघसम् । अत्र "भूभ्यदोल" [२३] इत्यत् ॥ बाहुलकात्प्रभाव ॥ न्याद । इत्ययं "न्यादो न वा" [२४] इति वा निपात्यः ॥ पक्षे । निघस ॥ वियमी वियामे नियमी नियामेथ यथा च संयाम्युरुसंयमे वा । नृप उद्यतः कीऍपयाम एवं विजयश्रियश्चोपयमे वभासे ॥६१॥ __६१. नृपो बभासे । कीदृक्सन् । कीर्युपयामे विजयोत्थकीर्ति १बी 'मेऽवभा'. १ए र । नी. २ बी नीसार. ३ ए पत्रप्र. ४ बी खकत्वात्. ५ बी घसः ॥ वि. ६ वी पोऽवभा. ७ ए सी डी कीर्ति'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy