________________
९८
ब्याश्रयमहाकाव्ये
[जयसिंहः]
अमियोद्धम् । आघातकः । जेप्यन्बजति । इत्यत्र "क्रियायां." [१३] इत्यादिना भविष्यति तुम्-गकच्-भविप्यन्त्यः । सस्यस्य शतुर्भविष्यन्त्या तुल्याथतया भविष्यन्तीग्रहणेन ग्रहणाजेप्यचिति भविष्यन्त्युदाहरणं ज्ञेयम् ॥
रिपुशान्तिकारः । अत्र “कर्मणोण्" [१४] इति भविष्यत्यण् ॥ बहुलाधिकाराण्णकच्भविष्यन्त्यावपि । शुभमापको धर्ममुद्धरिप्य इति दोर्युगं पश्यति॥
कीर्तये दोर्युगं पश्यति । इत्यत्र “भाववचनाः'' [१५] इति भविष्यति क्तिः॥ इति वेशवद्युध्यपपादसङ्गमिह सारवजल्पति कार्यसारम् । अतिसारकिस्पर्शसरोगवच्च स्वमथाभिनिन्दन्ववले भटौघः ॥५७॥
५७. इत्येवंप्रकारेणेह वेत्रिणि कार्यसारं कार्यस्य स्थिरमर्थ युद्धाभिमुखवलनरूपं कार्यरहस्यं सारवद्वलयुक्तं यथा स्यादेवं जल्पत्यथानन्तरं भटौघो युधि यद्धार्थ ववले । कथम् । अतिशीघ्रं वलनादपगतः पादसङ्गो भूम्या संहांहिसंबन्धो यत्र तद्यथा स्याद्वेशवद्यथा वेशे वेश्यापाटकविषये सहर्पत्वादपपादसङ्ग वलते । कीहक्सन् । आत्मानमभिनिन्दन् । अतिसारकिस्पर्शसरोगवद्यथातिसारक्यतिसाररोगवान् स्पर्शेन व्याधिविशेषेण सरोगो व्याधितश्चातिदुःखितत्वादात्मानं निन्दतः ॥ अभजद्विसारालयवन्नरेन्द्रमथ वाहिनी वैरिपचप्रतापम् । द्विषि दायभीः प्रासभृदुज्झिताध्यायतपस्व्युपाध्याय्यभिनन्धमाना
॥५८॥
१ सी डी ङ्गमति सा. २ ए सी डी °न्दच्चचले.
१ बी सी डी खचल'. २ सी ल्पति तथा. डी ल्पन्ति तथा. ३ डी ०र्थ चचले. ४ ए सी डी सस्यादि. ५ डी वेश्या०. ६ ए सी डी चल.