SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [ है ०५.३.१३. ] द्वादशः सर्गः । यदि मृत्युरेत्यत्स्यति हिंसिता मा बत नश्यताथोर्ध्वमरीन्मुहूर्तात् । अभियाति चेत्संप्रहरेत हन्ता परिजेष्यतीशः सुदृढास्तदाध्वम् ५५ ___५५. यदि मृत्युर्यमोपि युष्मानेत्यागमिष्यति तथात्स्यति भक्षयिध्यति तथा हिंसिता हनिष्यति । अथ तस्माद्वत हे भटा मा नश्यत । तथा मुहूर्ताद्धटिकाद्वयादूज़ चेद्यदीशो जयसिंह एवारीनभियात्यभिमुखं यास्यति तथा संप्रहरेत प्रहरिष्यति हन्ता हनिष्यति परिजेज्यति च । तत्तस्मात्सुदृढाः सुस्थाः सन्तो यूयमाध्वं तिष्ठत ।। __ यदि मृत्युरेति । अत्स्यति । हिंसिता । अथ मा नश्यत । इत्यत्र “पञ्चमी." [११] इत्यादिना भविष्यति वा वर्तमाना। अत्र भाविमृत्स्वागमनादि नाशाभावविषयस्य प्रेषस्यातिसर्गस्य प्राप्तकालतायाश्च हेतुर्भवति ॥ ऊवं मुहूर्तादीशश्वेत्संप्रहरेत । अभियाति । परिजेष्यति । हन्ता । सुदृढास्तदाध्वम् । इत्यत्र "सप्तमी च." [१२] इत्यादिना सप्तमी वर्तमाना च वा ॥ अभियोद्धमाघातक एष जेष्यन् व्रजति प्रभुो रिपुशान्तिकारः। शुभमापको धर्ममथोद्धरिष्य इति दोर्युगं पश्यति कीर्तये च ५६ ५६. एष प्रत्यक्षो वो युष्माकं प्रभुर्ब्रजति । किमर्थमित्याह । अभियोद्धं शत्रुभिः सहाभियोत्स्य इति । तथाघातकोरीन्ह निष्यामीति । तथा जेष्यन्नरीजेष्यामीति । तथा रिपुशान्तिकारो जित्वा रिपूणां शान्ति करिष्य इति । अथ तथा दोर्युगं पश्यति । किमर्थमित्याह । दोर्युगेनामुना शुभं शत्रुजयोत्थं कल्याणमापक आप्स्यामीति । अथ तथा धर्ममुद्धरिष्य इति । कीर्तये च कीर्तयिष्ये स्वस्य कीर्तिमुत्पादयिष्य इति च ॥ १ सी डी ति यत्सं०. १ सी डी हरि०. १३
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy