________________
ढ्याश्रयमहाकाव्ये
[जयसिंहः ]
५३. वो युष्माकमुदितानि वचनानि धिग्गामहे । कानीत्याह । युधि कहिँ कस्मिन्ननद्यतने काले वयं यामो यास्यामस्तथारिपु मध्ये कर्हि भातास्मो विजयेन शोभिष्यामहेत एव उ इति संवोधने । कहीनं स्वामिनं तोषयिष्यामस्तथा उ हे भटाः कतमो भटोस्माकमाजि ददाति दास्यति तथा कतमः स्वर्दास्यति । रणे हि मृताः स्वर्ग यान्तीति रणे निपात्यास्माकं स्वर्ग दास्यत्यत एव कतमः सुयशश्च दातेति ॥
पुरास्ति । यावदपयाथ । इत्यत्र “पुरा." [७] इत्यादिना वर्तमाना भविष्यति ॥
कदा भविष्यति । कदा भविता । कर्हि यामः । कर्हि तोषयिष्यामः । कहि भातास्मः । अत्र "कदा." [ ८ ] इत्यादिना भविष्यति वा वर्तमाना । पक्षे भविष्यन्तीश्वस्तम्यौ ॥
कतमो ददात्याजिम् । दास्यति स्वः । सुयशो दाता । इत्यत्र “किं." [९] इत्यादिना वा वर्तमाना॥ अभयं प्रदत्ते शरणं प्रदाता विधुरेषु यो दास्यति चासुभिक्षाम् । श्रयति श्रियं द्यां श्रयिता श्रयिष्यत्यमृतं स एवं वदथाद्य किंतु
॥५४॥ ५४. स्पष्टम् । किंतु प्रदत्ते दास्यति । विधुरेषु सकप्टेष्वादस्मासु विषये । असुभिक्षामसवः प्राणास्त एव भिक्षा तां जीवितव्यम् । श्रयति श्रयिष्यति । अमृतं मोक्षम् ॥
योभयं प्रदत्ते । असुमिक्षां दास्यति । शरणं प्रदाता । स श्रियं श्रयति । अमृतं श्रयिष्यति । धां श्रयिता । इत्यत्र “लिप्स्यसिद्धौ” [१०] इति वा वर्तमाना॥
१ बी षु क. २ ए डी सी विता. ३ सी डी ना व. ४ बीएः । किं.