________________
[१०] १.३.४१.]
प्रथमः सर्गः ।
मृदू रक्तः शुची रम्योस्मिन्नान्यखीजनः सुखी ।
अहो रात्रिं च नो वेति स्वारामाजनसंनिभः ॥ ९८ ॥
९८. अस्मिन्पुर आन्यस्त्रीजनोहो रात्रिं च नो वेत्ति । कीदृक् सन् । मृदुः कोमलपाण्याद्यवयवः कोमलवचनो वा । रक्तः स्वपत्यावनुरागवान् । शुचिरुज्ज्वलाङ्गनेपथ्यः कौटिल्यादिपङ्करहितो वा । रम्यो रूपलावण्याद्यतिशयवान् । सुखी नीरोगत्वसर्वसंपत्तिसामग्र्यादिना सुखितः । अत एव स्वारामाजनसंनिभः स्वर्गस्त्रीसदृश: ।। अतिसुखितत्वेनोदितमस्तमितं च न जानातीत्यर्थः । स्वारामाजनोप्युक्तविशेषणोपेतो दिनं रात्रिं च न जानाति ॥
६५
स्वारामा | शुची रम्यः । मृदू रक्तः । इत्यत्र "रो रे लुग्” [४१] इत्यादिना रस्म लुगकारेकारोकाराणां चानन्तराणां दीर्घः ॥ अन्वित्येव । अहो रात्रिम् । अत्र पूर्वमेव रोरुत्वे रेफाभावालुग्दीर्घाभावः सिद्धः ॥
उमामादिप्रसक्तानां प्रौढानां लीढसौरभः । मधुलिड़ौकते लेढुं मोढात्रादृढ आननम् || ९९ ॥
९९. अत्र पुर उमामाढिप्रसक्तानामुमाया गौर्या माढिर्महनं पूजा तत्र प्रसक्तौनामासक्तानां प्रौढानामिद्धवयोमन्युकामानां प्रगल्भत्रीणामाननं मुखं लेढुंमाघ्रातुमावृढ उद्यतः सन् मधुलिट् पूजार्थोपनीत - ष्पसहचरो भृङ्गो ढौकत आगच्छति यतो मोढा मुखे पद्मभ्रमवान् । कुतः । यतो लीढसौरभ आघातमुखसौगन्ध्यः पूजार्थानीतपुष्पाणि
१ सी डी 'ढ्यः स्त्री.
१ डी 'पता'. २ सी डी 'कानां. ३ बी सी डी एफ पुम्फस