________________
व्यायमहाकाव्ये
[मूलराजः]
म् । किरति । कम्बु । न्। तन्वयः । चञ्चत् । कण्व्यः। कवुडोचि कण्ठः । रंरम्यन्ते । इत्यत्र "नां धुट्" [३९] इत्यादिना निमित्तवर्गस्यैवान्त्यः ॥ धुडिति किम् । अब्जन्म ॥ धुवर्ग इति किम् । रंरम्यन्ते ॥ अपदान्त इति किम् । लुठन् किंकरति ॥
पद्मान्युन्मधुलिंहीव सुदृश्यास्यानि सुभ्रवाम् ।
चेतांसीहाच्छतागुंषि पुंसां खःसिन्धुवारिवत् ॥ ९६ ॥ ९६. यथा पद्मान्युदूर्ध्व मधुलिहौ भृङ्गदंपती येषु तान्युन्मधुलिंहि भृङ्गमिथुनयुतानि स्युस्तथेह पुरे. सुभ्रुवामास्यानि मुखानि सुदृशि रम्येक्षणद्वन्द्वानि सन्ति । पश्चाई स्पष्टम् ॥
पिण्डि गर्व मुखेनेन्दोः खःस्त्रीभ्यः खं विशिण्ड्डि च ।
इति शास्ति वदन्साधु स्वीजनेत्र सखीजनः ॥ ९७ ॥ ९७. अत्र पुरे सखीजनः साध्वनेकभङ्गीचतुरं यथा स्यादेवं वदन् सन् स्त्रीजने विषये शास्ति शिक्षा दत्ते । कथमित्याह । पिण्डीत्यादि । अत्युत्कृष्टवृत्तत्वकान्तत्वादिश्रीशालिना मुखेन कृत्वा चन्द्रगर्वस्य चूर्णने तथातिशयितरूपादिश्रिया देवीभ्यः सकाशात्स्वस्य विशिष्टीकरणे च तवाधुनावसर इत्यर्थ इति ॥ “प्रैषानुज्ञा" [५.४.२९] इत्यादिनात्र पञ्चमी ॥
म् । पुंसां । न् । सुइशि । अच्छतादृषि । चेतांसि । उन्मधुलिंहि । इत्यत्र "शिड़े" [४०] इत्यादिनानुस्वारः ॥ नामिति बहुवचनात् सुहंशीत्यत्र भस्वं बाधित्वानेनानुस्वार एव ॥ शिड़ इति किम् । इन्दोः ॥ अपदान्त इत्येव । बदन् साधु ॥ अन्वित्येव । पिण्डि । शिण्डि । अत्र पिषशिपोहौं तस्य धित्वे पस्य डत्वे च शिडभावारनकारस्यानुसारो न भवति ॥
१ सी डी एफ् स्वस्त्री. १एफ कम्मुवत् । न. २ सी डी धुटिति. ३ एफ 'न्म। रं.४ सीडी न्ते । लु. ५ सी डी एफ जनवि'. ६ एफ तेत्र क. ७ एफडेनुस्वार इत्यनु.