SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [है० १.३.३८.] प्रथमः सर्गः । हती तत्संवोधनं हे पुत्रहति । तथौ हे पुत्रजग्धि भक्षितपुत्रे त्वयेदं दुष्णु कृतमिति स्त्रियं च ॥ पुत्रादिपुत्रपुत्रादिवर्जितेत्रोपहस्यते । पुत्रादिपुत्रपुत्रादिमत्स्यो न्यायः प्रचेतसः ॥ ९४ ॥ ९४. पुत्रादिनः पुत्रभक्षिणः पुत्रपुत्रादिनश्च पौत्रभक्षिणो मत्स्या यत्र स प्रचेतसोपांपतेर्वरुणस्य न्यायोत्र पुर उपहस्यतेल्लोकैः । यतः पुत्रादिपुत्रपुत्रादिवजिते पुत्रादी पुत्रसंहारी यः पुत्रपुत्रादी पौत्रसंहारी शाकिन्यादिलोकस्तेन वर्जिते रहिते ॥ पुत्रादिन् । पुत्रपुत्रादिन्निति नाक्रोशति । इत्यत्र “पुत्रस्य" [३८] इत्यादिना न द्वित्वम् ॥ आदिन्पुत्रादिनीति किम् । पुत्रहति पुत्रजग्धीति नाक्रोशति ॥ आक्रोश इति किम् । पुत्रादिपुत्रपुत्रादिवर्जिते पुत्रादिपुत्रपुत्रादिमत्स्यः । एषु "अदीर्घात् " [१.३.३२] इत्यादिना विकल्प एव ॥ कम्बुकण्ठ्योत्र तन्वनयश्वञ्चदजन्मलोचनाः । रंरम्यन्ते यद्भुवोग्रे लुठन्किङ्करति स्मरः ॥ ९५ ॥ ९५. अत्र पुरे तन्वङ्गयः कृशाङ्गयो जलक्रीडादिभी रंरम्यन्तेत्यर्थ क्रीडन्ति । कीदृश्यः । कम्बुः शङ्खस्तद्वद्वर्तुलस्त्रिरेखो मधुरस्वरश्च कण्ठो यासां तास्तथा चञ्चदब्जन्मलोचनाः विकस्वरेन्दीवराक्ष्यः यद्भुवोगे यासां भ्रवः पुरो लुठन्परिवर्तमानः स्मरः कामः किंकरति किंकरवदाचरति । अत्रत्यतन्वङ्गीनां यत्रं यत्र भ्रुवोनिक्षेपस्तत्र तत्र स्मरो विजृम्भत इत्यर्थः । किंकरोपि हि भक्तिविशेषल्यापनाय स्वामिनोने लुठति ।। १डी हत्येत. २ए सी डी पुत्रह. ३ एफ था पु. ४ सीडी एफ दुष्टं कृ. ५ एफ री च शा. ६ एन्तेत्यार्थ. ७ सी डी त्र ध्रु.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy