________________
[हे. १.३.१२.]
प्रथमः सर्गः । कृता! विहितपूजोपचारः कलो मधुरवा च सन् कविः काव्यकर्ता दैवतमहदादिकां स्वाभीष्टदेवतां प्राहै । कथमित्याह। हे गो३त्रातः संसारसागरोत्तारकत्वेन भूस्थलोकस्य रक्षणशीलात एव हे भुवः प्रभो पृथिव्याः स्वामिंस्तथा हे घो३त्र स्वर्गस्थलोकरक्षक दैवत नमतः प्रणम्रानस्मदादीन पाहि पाहि रक्ष रक्षार्थात्संसारदुःखेभ्य इति । कविरित्यत्र जाता. वेकवचनम् । वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन् निन्दन यत्पदमसकृद् यात्तत्पुनरुक्तं न दोषायेत्यलंकारविदां समयात्पाहि पाहीति न पुनरुक्तदोषः ॥ गोत्रातः। घो३त्र । इत्यत्र "दूरादामध्यस्य" [७.४.९९] इत्यादिना प्लुतः ॥
पात्रे यथाविधि प्रत्तधनश्चन्द्रसमो गुणैः ।
धैर्ययुग्ग् वीर्ययुग् राजत्यत्र सर्वोपि सत्यवाक् ॥ ८५ ॥ ८५. अत्र पुरे सर्वोपि लोको राजति । यतः कीदृक् । पात्रे ज्ञानदर्शनचारित्राधारे तीर्थकृदादौ यथाविध्यागमोक्तकल्पानुसारेण प्रत्तं प्रदातुमारब्धं धनं वित्तं येन सः। एतेनौदार्यविवेकावुक्तौ । धैर्ययुग्ग् वीर्ययुग् । आपत्स्वप्यचलचित्तता धैर्य वीर्य पराक्रमस्ताभ्यां युक्तः । सत्यवागवितथवचनः । अत एव गुणैरौदार्यादिभिः कृत्वा चन्द्रसम इन्दुवनिर्मलः॥
विरामे । धैर्ययुग्ग वीर्ययुग । अभजत्तू असृजत् ॥ एकव्यञ्जने । मित्रार्थ पित्रर्थ । त्वङ्कः । असस्टयतः सय्यतत्वम् । इताविः कविलः । नमतरूपाहि गोश्चातपाहि । कलः कान्तः कान्तः कृतार्चः । गोश्वातः घो३७ । इत्यत्र "अदी
त्" [३२] इत्यादिना वा द्विस्वम् ॥ अन्वित्यधिकारात् कत्वगत्वादिषु कृतेषु पवाद्वित्वम् । अदीर्घादिति किम् । वाक् । पात्रे ॥ विरामैकग्यजन
१ सी डी क सौ. २ सी डी एफ दिकं स्वा. ३ पफ ह । हे. ४ सीडी क देव'. ५सी डी वि. ६एफ जने कि.