________________
व्याश्रयमहाकाव्ये
[ मूलराजः अघो अर्क भगो ईश भो इन्द्र उ चतुर्भुज । इत्यादौ ब्रह्मयज्ञस्य स्मरन्ति ब्राह्मणा इह ॥ ७२ ॥ ७५. इह पुरे ब्राह्मणा द्विजा ब्रह्मयज्ञस्याध्ययनस्यादौ प्रारम्भेषो अर्क हे ग्वे भगो ईश हे शंभो भो इन्द्र उ चतुर्भुज हे विष्णो । जये. त्यादिका किया सर्वत्राध्याहार्या । इत्येवंप्रकारेण स्मरन्त्यर्थादर्कादीन् । निर्विनाध्ययनप्रवृत्तये अर्काद्यभीष्टदेवताः स्मृत्वा ब्राह्मणा वेदाध्ययनं कुर्वन्तीत्यर्थः ॥
अघोयिन्द्र भगोयिन्दो भोयादित्यायु विष्णव ।
असावु कयु वोत्रेति नृपे पृच्छन्ति खेचराः ॥ ७६ ॥ ७६. अत्रं नृपेत्र पुरेस्ति यो नृपस्तत्र विषये खेचरा देवा इन्द्रादीन्पृच्छन्ति । कथमित्याह । अघो इन्द्र भगो इन्दो भो आदित्या द्वादशार्का उ विष्णो वो युष्माकं मध्येसौ नृपः कः । किं प्रश्ने । युष्माकं मध्येसौ किमिन्द्रः किं वेन्दुः किं वा कोप्येको रविः किं वा विष्णुरिति । अत्रत्यनृप ऐश्वर्यकान्तत्वतेजस्वित्वरक्षकत्वादिगुणदर्शनादिन्द्रचन्द्रादित्यविष्णुशङ्कयैवं प्रश्नः । विष्णवु असावु कयु इत्यत्र त्रयोप्युत्रः पादपूरणे ॥
तयीश्वरास्तयारामा इमेसाववनीपतिः ।
बन्धवत्र साधवीलस्वागन्ताविति वागिह ॥ ७७॥ ___७७. इह पुर आगन्तावागन्तुकजनविषये वागस्ति । यथा हे बन्धो
१ सी श शंभो इन्द्र च. डीश शंभो इन्द्र उ च.२ सी डी त ईश्व.
१ एफ ष्णो जीवेत्या . २ ए दिक्रि° ३ डी सी दीननि. ४ एफ त्र पु. ५ ए विष्णुवुः अ.सी विष्णुवु.