________________
[है. १.३.२३.] प्रथमः सर्गः । इति किपि वृक्षवृश्यं करोति णिज्यन्स्यखरादिलोपे वृक्षवयति' किपि वृक्षे वृक्षाणां छेदको न च नैवास्ति । एवं लता न च । लताच्छेदकोपि नैवास्ति । वृक्षलता जन्मजराजीवनमरणारोहणाहारादिसचेतनधर्मवत्त्वेन सचेतना इति ताः प्राणातिपातनिवृत्तत्वेन न च्छिनत्तीत्यर्थः । यतोध्यारूढ उमीशमध्युः । स चासाविन्दुश्चाविन्दुः । स इवे निष्कलङ्का निर्दोषा ये गुणा दयादयः । ईश्वरभालस्थस्य हि कलामात्रस्येन्दोः प्रतिपदिन्दोरिवं निष्कलकत्वात्तैरन्वितः । नन्वत्र पुरे को गुणो येनैवंविधगुणोपेतो मुनिजनोत्र तिष्ठति तत्राह । यतः सदा सर्वदा साध्युदये साधूनां मुनीनामीस्तपःसंयमादिलक्ष्मीस्तस्या उदयो वृद्धिर्यत्र तस्मिनिर्जीवक्षेत्रताविशुद्धाहारप्राप्त्यादिसंयमगुणोपेततया मुनिजनप्रायोग्य इत्यर्थः ।।
वृक्षलता । लता न च । अन्यलोक । इत्यत्र "न्योः" [२३] इति ष(य?)योलर ॥ पदान्त इत्येव । भव्याजय्य । कश्चित्तु स्वरजयोरनादिस्थयोर्यकारवकारयो?षवस्यवर्णादन्यतोपि लोपमिच्छति । अध्विन्दु । साभ्युदये ॥
बन्ध एते दृशा अस्याः कमले क इव भ्रमः ।
क इत्यं नेह कामिन्याः स्तुत्या अन्योन्यमुद्यताः॥७४॥ ७४. कामिन्याः स्तुत्यै लोचनाद्यवयवसौन्दर्यवर्णनायेह पुरेन्योन्यं के नोद्यताः । कथमित्याह । हे बन्धो बान्धवास्याः प्रत्यक्षायाः कामिन्या एते प्रत्यक्षे दृशौ नेत्रे कमले । अत्रार्थे क इव भ्रमः को नाम संशयः । इवोसंभावनायाम् । एते दृशौ पये एव । अत्रार्थे न काप्यसंभावना कार्येत्यर्थ इत्थम् ।।
१ एफ ति तीति कि. २ए क्ष वृ [व् बहिः]. ३ सी 'स्ति . ४ बी सी डी रणरों'. ५एफ व निः क. ६ एफ व निः क. ७ एफ °नयों. ८ वी जय्या ।. .