________________
[है• १.३.२६.] प्रथमः सर्गः ।
५३ बान्धव साधो शिष्ट ये त्वया पूर्व वार्तया श्रुतास्त इम ईश्वरो आव्याः । तथा येषां फलान्यमृतरसस्वादूनि त्वमाखादयो ये त्वया श्रुत. पूर्वाश्च त इम आरामा उद्यानानि । तथा यं त्वं यशसा दृष्टपूर्वी सोसाववनीपतिर्भूपो वर्तते । अत्र प्रदेश ईक्षस्वालोकयार्थादीश्वरादीनेवेति ॥
ययितोस्मायिदं देहि ययितोस्मायिदं पुनः।
उदारायीश्वरायाहुरत्रेति स्वनियोगिनः॥ ७८॥ ७८. अत्र पुर उदारायीश्वरा आन्याः स्वनियोगिनः स्वभाण्डागारिकॉनित्येवंप्रकारेणाहुः । यथा । अहो नियोगिन् यो याचकजन इतोस्मिन् विवक्षिते पूर्वादिदिग्विभागेस्त्यस्मायिदं वर्णदुर्वर्णादि देहि । यः पुनरितोस्मिन् विवक्षिते पश्चिमादिप्रदेशेस्त्यस्मायिदं पूर्वस्मादन्यदोजनवस्त्रादिकं देहीति ॥
बन्ध एते । दशा अस्याः । क इव । स्तुत्या अन्योन्य । भो इन्छ । भगो ईश । अघो अर्क । इत्यत्र "स्वरे वा" [२५] इति वययोर्वा लुक् ॥
पक्षे । विष्णवु । असावु । कयु । आदित्यायु । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र “अस्पष्टा" [२५] इत्यादिना वैययोः स्थाने नित्यमस्पष्टावी. पत्स्पृष्टतरौ वयौ । अवर्णात्वनुनि वा । बन्धवत्र । साधवीक्षस्व । असाववनीपतिः । आगन्ताविति । तयीचराः । तथारामाः । अस्मायिवम् अस्मायिदम् । ययितः ययितः । उदारायीश्वराः । ईश्चरायाहुः। भनुनीति किम् । उनि अस्पष्टावेव यथा स्यातां तथा चोदाहृतम् ॥
ययितः । उदारायीश्वराः । भोयादित्याः । भगोयिन्दो । अघोयिन्द्र । इत्यत्र "रोर्यः" [२६] इति रोः स्थाने यः ॥ अवर्णादिम्य इत्येव । आहुरत्र ॥
१ सी डी राधाः । त. २ बी सी डी त्वमस्वा'. ३ सी डी या यत् त्वं. एफ था य. ४ बी सी डी कानाहुः. ५ए दं पूर्वस्मायिदं पू. ६५ एफ वयों. ७ एफ वयोः. ८ए बी सी डी रौ यवौ । ९ए उडि अ.