________________
७६८ व्याश्रयमहाकाव्ये
[ कर्णराजः] नोत्थकूजितैर्भणन्निव । किमित्याह । हे घन चेत्त्वमिहाकाशे नाटिघ्यस्तदाहं तृपा कृत्वा विहस्तो भविता व्याकुलो भवन्कथमभविष्यंस्तत्तस्माखेतोस्त्वं चिरं बहुकालमास्स्व तिष्ठति । यतः पत्रपयोपि वृक्षपर्णात्पतजलविन्दुमात्रमपि मेघोन्मुक्तजलकणभ्रान्त्या लिप्सुः । एतेनास्य तृष्णाधिक्यमुक्तम् ॥
अधिजगे । अत्र "गा" [२६] इत्यादिना गाः ॥ अधिजिगापयिष्यमाणः अध्यापिपयिष्यमाणाम् । अध्यजीगपत् अध्यापिपत् । इत्यत्र “णा सन्डे वा" [ २७ ] इति वा गाः ॥
अध्यगीष्ट अध्यैष्ट । अध्यगीप्ये अध्यप्यत । इत्यत्र “वाद्यतनी" [२८] इत्यादिना वा गीङ् ॥
अवदन् । अध्यगीष्ट । अध्यगीप्ये । अत्र “अड् धातोर" [२९] इत्यादिनामदादिः ॥ अमाडेति किम् । मा मूछीत् ॥
निरायन् । अध्यायन् । आसन् । इत्यत्र "एति" [३०] इत्यादिना वृद्धिः ॥
आटीत् । आटिप्यः । आटत् । इत्यत्र “स्वरादेस्तासु" [ ३१ ] इति वृद्धिः॥ अभविष्यम् । भविता । इत्यत्र "स्तादि" [३२] इत्यादिना-इट् ॥ अशित इति किम् । आस्स्व । आस्ते ॥ अत्रोणादेरिति किम् । पत्र । उणादि । विहस्तः ॥ चक्रे धनुष्कम्पितिसंगृहीतीर्जयं ग्रहीतुं शमसंवरीता । शरैर्जगत्मावरिता वरीता पीते रतेर्वा वरिता स देवः ॥ २५ ॥
२५. शमसंवरीतेन्द्रियजयस्याच्छादयिता प्रीतेर्वरीता वरो रते, १ई धनुःकम्पि. २ सी डी °यं गृही. १६ त । य'. २ सी अत्र. ३ ए बी 'माणम्. ४ डी अधेष्य'. ५ ई भडतो. ६ सी ध्यास. ७ सी डी पत्र । उ. ८ सी डी यस्यच्छा.