________________
७४८
व्याश्रयमहाकाव्ये
नृपानवगणय्यान्यान्खेदं प्रापय्य नः सखी ।
कर्ण प्राप्य मनोत्रागादप्रमित्य वचोसि किम् ।। १६५ ।।
[ कर्णराजः ]
I
१६५. नोस्माकं सख्यत्र गूर्जरत्रायामागान् । किं कृत्वा । अन्यानृपानुद्वोदुमिच्छून् राज्ञोवगणय्यावज्ञाय । अत एव तान्खेदं प्रापय्य ततो मनः स्वचित्तं कर्णं प्राप्य नीत्वानुरागेण कर्ण मनसिं कृत्वेत्यर्थः । तस्माद्वचोहं कर्ण इति वचनमप्रमित्याप्रतिदाय किमसि किमिति तिष्ठसि । प्रतिवचनं दत्स्वेत्यर्थः ॥
उ
अप्रमाय करं कर्णश्चेत्स्मराजय्यतां भजेत् ।
अयशोकय्यमक्षय्यमेषा प्रक्षीय दास्यति ।। १६६ ।।
१६६. चेत्कर्णः करमप्रमायैतत्करग्रहणपूर्वं स्वपाणिमदत्वैतामपरिणीयेत्यर्थः । स्मराजय्यतां स्मरस्य कतुर्जेतुमशक्यतां भजेद्वैर्यातिशयात्स्मरेण जेतुमशक्यो यदि स्यादित्यर्थः । तदैषा कन्या प्रक्षीय विनश्यायशो दास्यत्यर्थात्कर्णस्य । किंभूतम् । अक्रव्यमकस्मादुपनतमित्यर्थः । अक्षय्यमनेकावदातैरपि क्षेतुमशक्यम् ॥
अवगणय्य । इयंत्र "लघोर्यपि" [ ८६ ] इत्यय् ॥ प्रापय्य प्राप्य । इत्यत्र " वामोः" [ ८७ ] इति वाँय् ॥
अप्रमित्य अप्रमाय । इत्यत्र " मेडो वा मित्” [ ८८ ] इति वा मित् ॥ प्रक्षीय । इत्येत्रे " क्षेः क्षी (क्षीः ) " [ ८९ ] इति क्षीः ॥
१४
66
अक्षय्यम् । अजय्यताम् । अत्र "क्षय्यजैथ्यो” [९०] इत्यादिना निपात्यौ ॥ *य्यम् । इति ‘“क्रय्यः क्रयार्थे” [ ९१ ] इति निपात्यम् ॥
१ ए श्वेत्सरा'.
१
रात्रा २ ए बी सिकृत्येत्य'. ३ बी सी किमि . ४ सी डी 'करम'. ५ ए स्वप्राणि ६ डी णीयो इ. ७ ए बी डी अनव ८यवल. ९ बी वामोतिरिति १० ए वाइय्. सी वाडय्. ११ 'म् । मजभ्यम् । म॰. १३ ए 'जयौ क्षय्य इ. १४ बी
१२ सी
डी 'त्र क्षः क्षी. ग्यौ क्षय्य ६.