________________
-
-
-
[है ०४.३.५६. नवमः सर्गः।
७३३ वामाचामं सुधाचामकानां मेने चमं नृपः ।
पुलकोद्वामको दृष्ट्या तस्या लावण्यचामतः ॥ १३६ ॥ १३६. पुलकोद्वामको रोमाञ्चोढ़ेदवानृपः कर्णः सुधाचामकानाममृतास्वादकानां देवानां चमं चम्यते चमः कर्मणि घञ् । भक्ष्यं सुधां वामाचामं प्रतिकूल जेमनं मेने । कस्मात् । तस्या नायिकाया दृष्ट्या दर्शनेन कृत्वा लावण्यचामतः सौन्दर्यास्वादाद्धेतोः । तल्लावण्यमास्वाद्यामृतमवाहीलयदित्यर्थः ।।
प्रजनाः । जन्य । अजनि । बध । वध्याः । अवधि । इत्यत्र "न जनवधः" [५४ ] इति न वृद्धिः॥
शम । अशमैक। अशमि । इत्यत्र "मोकमि" [५५] इत्यादिना न वृद्धिः॥ कम्यादिवर्जनं किम् । कामेन । कामुकः। अकामि । व्याया। आयामक। आयामि । आरामे । अविरामकः । अरामि । निर्नाम । उन्नामिका । अनामि । आगामुकाँ । अगामि । वाम । उद्वमिकः । अवामि । आचामम् । आचामका. नाम् । आचामि ॥ आंचम इति किम् । चमम् ॥ अन्ये तु सामान्येन निषेधमिच्छन्ति । चामतः॥
यस्यां विश्रामकं चक्षुर्मनो विश्रमकं च मे । सा श्रीविश्रमभूः केयं कामविश्राममन्दिरम् ॥ १३७॥
13
१६
१ एनृपकेः सु. २ ए भक्ष्य सु. ३ ई ततस्या. ४ ए वण्याचा.५ ई तमिवा. ६ ए °लअदि. ७ए सी जना । ज. ८ ई अवधि. ९ए न दि. १. डी शमः । अ. ११एमका । म. १२ ई त्यत्रामो'. १३ ए
दिः ॥ काम्या'. १४ सी "मुक । अ'. १५ डी म । अया'. १६ डी मि । अ. १७ बी का । मागा. १८ ए सी डी ई मक। अ. १९ सी डी भाचाम. २० सी मत ॥.