________________
७३२
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
मेवेत्यर्थः । अत एव यैराजौ रणे क्रीडा रेणकेलिरैकामि च वाञ्छितारामि च युद्धेनाजौ क्रीडितं च रणे यैर्निर्व्यूढमित्यर्थः । तान् गजान्स कर्णोविरामको दर्शनादनिवर्तमानः सन्नपश्यद्यतो जयश्रीकामुकः ॥
व्यायामच्छेदकामेन तेनागामि लतागृहे ।
हैष्टा चागामुका श्रीर्नु काप्यायामकचक्षुषा ।। १३४ ॥
१३४. तेन कर्णेन लतागृहेगामि गतं यतो व्यायामच्छेदकामेन खेदापनोदेच्छुना । तत्र च कापि नायिका श्रीर्नु रूपाद्यतिशयेन लक्ष्मीरिवागामुकागच्छन्ती तेन दृष्टा च । कीदृशा सता । आयामके तद्दर्शनाद्विशेषेण दीर्घीभवन्ती चक्षुषी यस्य तेन ॥
नानाम्यायामि हर्षाम्भोवाम्याचामि सुधेव च । उन्नामिकाभ्रुवस्तस्य दृशा निर्नामपक्ष्मणा ।। १३५ ॥
५
१३५. तस्य कर्णस्य दृशाक्ष्णा नानामि न नीचैर्भूतम् । कीदृशस्य सत: । उन्नामिके अद्भुतरूपदर्शनेन विस्मेत्वादुन्नमन्यावूर्ध्वोभवन्त्यौ भ्रुवौ यस्य तस्य । यतः किंभूतया । रूपदर्शन भङ्गभयान्निर्नामानि निर्नमनानि निमीलनरहितानीत्यर्थः । पक्ष्माणि यस्यास्तया । त्वायामि दीर्घीभूतम् । तथा हर्षाम् आनन्दाश्रुं । अवामि च क्षैरितं च यतः सुधेवाचामि सुखेदरूपावलोकनेनामृतमिवास्वादितम् ॥
१ बी च्छेदिका २ ए लगा गृ० ३ ए डी दृष्ट्वा चा°.
.
४ ए कर्णौवि. डी 'स्तथा । किं.
११ ए क्षरतं.
{C 'ang°. २ सी डी रणे के". ३ ई ५ बी के उद्भु. ६ए रत्यादुन्नर्मत्यावू. ७ बी सी ८ई किं त्वया . ९भयान". १० सी डी 'श्रु | आचामि १२ ए "खहरू".