________________
[है० ४.३.३.] नवमः सर्गः।
वेव्यते दीध्यते लक्ष्म्या भवानग्रेधुनानया। यदि वेवीत दीधीतेत्यालेख्यपटमार्पयत् ॥ ९४ ॥ ९४. चित्रकृदालेख्यपटं चित्रपटमार्पयद्राज्ञे ददौ । कथम् । इत्येवमुक्तिदानप्रकारेण । इत्युक्त्वेत्यर्थस्तमेवाह । हे नृपाने पूर्व भवांस्त्वं लक्ष्म्या राज्यश्रिया का वेव्यते धीरललितनायकत्वात्काम्यते । तथा दीध्यते । अन्तर्भूतणिगर्थत्वाद् रम्यते च । अधुना सांप्रतं पुनरनयालेख्यपटस्थकन्यकया सहितां लक्ष्मी यदि वेवीत दीधीत च । इच्छा मे यदि कामयेत रमयेच्चेत्यर्थः । असंजातपूर्वसपत्नीका लक्ष्मीरधुनानया ससपत्नीका यदि भवेत्तदा ममात्यभिप्रेतं स्यादिति भावः । भन्न "कामोकावकचिति" [५. ४. २६ ] इति कामोको गम्यमानायो सर्वविभक्त्यपादा सप्तमी । यदि च भवानम्र इति पाठस्थाने पूर्वमेष इति पाठः स्यात्तदा सर्वापीयमुक्ति: कवेः स्यात्ततश्च पूर्वमेष कर्णों लक्ष्म्या वेव्यते दीध्यते चाधुना त्वेषोनया सहितो लक्ष्मी यदीति यथार्थे । यथा वेवीत दीधीत च । वर्तमानार्थेपि सप्तमी दृश्यते । ततश्च यथाभिलषति क्रीडयति चेति हेतोरालेख्यपटमार्पयदिति सरल एवान्वयः स्यात् । विशिष्टान्नार्यविद्भिरन्यथा वैतदर्थः स्वयं व्याख्येयः ॥ भतनोत् । अधुनोत् । इत्यत्र "उभोः" [२] इति गुणः । अविभयुः । हेपयन् । इत्यत्र “पुस्पौ" [३] इति गुणः ॥
१५ई त देधी.
१ सी डी मुक्तदा'. २ ए सी भवास्त्व '. ३ एवेन्येते. ४५ई देवी'. ५ वी येच र, सी डी येद र. ६ ए येचेत्य'. ७ बी सी टी वकिधि. पवकिन्विति. ८बी वादः स. ९ बी सी डी हित . १.५ दी य. ११ एईत देवी . १२५तकमा . १३ बीई पते की.सीडीपयतेनी. १४ सी डी यवदि. १५ बीई पा चैत'.