________________
४४ वाश्रयमहाकाव्ये
[मूलराजः] __अत्र मन्दं मलत्स्त्रैणम्हालयेत्कस्य नो मनः।
स्वैरं हलत्करिकुलव्हालयत्यवनीमपि ॥ ६२॥ ६२. अत्र पुरे मन्दं मन्थरं मलद्रच्छत् झणं सीसमूहः कस्य वशिनोपि मनो नो झालयेत् सोत्कण्ठं न कुर्यात् । किं तु सर्वस्यापि । तथापिभिन्नक्रमे खैरमित्यस्मा ज्ञेयः । स्वैरमपि स्वेच्छयापि मन्दमपीत्यर्थः । ह्वलद्गच्छत्करिकुलं हस्तिवृन्दमवनिं भूमि हालयति गिरिवन्महत्तमत्वात्कम्पयति । यद्वा । अपिर्यथास्थान एव योज्यः। आस्तां तावद्यजनादि कम्पयति यावतावनीमपि । अवनी ह्यचलत्वेन प्रसिद्धा । अत्र च स्त्रैणहास्तिकयोः समानधर्योक्त्योपमानोपमेयतो व्यज्यते । यथात्र हास्तिकं खैरं चलवनीमपि चालयति तथा मन्थरं चलत्यैणं वशिनामपि मन इति ॥
अभ्यागतानां निर्मातुं हत्तिल्हादितमानसः । असंहृवान आत्मानन्हुतेर्य नात्र कश्चन ॥ ६३ ॥ ६३. अत्र पुरेभ्यागतानामतिथीनां हृत्तिं पाद्यभोजनवसाधातिध्यसंपादनेनानन्दं निर्मातुं कर्तुं कश्चन कोप्यर्थ द्रव्यं न हुते सांप्रतं व्यवहारेषु लामो नास्ति प्रत्युत हानिरेवेत्यतः क द्रव्यमिति प्रकारेण न गोपायति । किं तु तदर्थे सर्वखं व्ययतीत्यर्थः । कीदृक् सन् । हादितं धार्मिकोदारत्वादतिथिं दृष्ट्वा प्रमोदितं मानसं चित्तं येन स तथा । अतः एवासंहुवानोतिथिदृष्टिवश्वनेनातिरोधानः ॥ १सरी लेणं झल.
१सीडी पदव.२ वी सी डी धोक्त्यो ३ ए ता व्यंज्य'. ४ एफशि मा म'. ५ एफ ताम'. ६ सी डी त्ति खाप'. ७ एफ यते ।।