________________
A
[ है० १.३.१४. ]
प्रथमः सर्गः ।
दिति प्रच्छन्नगत्या गर्हितं विचरन्ति । यतो दूरमनिकटं यथा स्यादेवमत्युन्नतत्वात् दन्द्रमिता कुटिलं गता छाया येषां तांस्तथा वनाधिष्ठायकदैवतविशेषप्रभावात्सदा पैम्फुलितनत्यर्थ फलितान् । एतेनात्रत्यतरूणां छायाफलादिना स्वर्वृक्षेभ्योप्यत्युत्कृष्ठतोक्ता ।।
रंरम्यन्ते जना गोभिरभ्रंलिहब हल्लिहैः ।
प्रीयन्ते काम्यतपसः संयताः सय्यतैरिह ॥ ६१ ॥
४३
६१. इह पुरे जना लोका अभ्रं मेघं लिहन्ति स्थूलोन्नतत्वात्स्पृशन्त्य - लिहा ये वहं ककुदं लिहन्ति जातिस्वभावाज्जिह्वया स्पृशन्ति वहलिहास्तैर्गोभिर्वृषभैः कृत्वा रंरम्यन्ते वाहादिना हौडापातनेन परस्परमत्यर्थे क्रीडन्ति । एतेन जनानामतिसुखितत्वोक्तिः । तथेह काम्यमभिलषणीयं तपो यैस्ते संयताः सुविहितमुनयः सय्यतैः सुविहितसाधुभिः सह प्रीयन्ते एकधर्मस्नेहेन निह्यन्ति । एतेनात्र सुविहितानां सुविहितैः सह श्राद्धभक्तादिना न विरोध इत्युक्तम् ॥
"
चंक्रम्यते चङ्क्रमण । चंचलति चचूर्यन्ते । दंद्रमति दन्द्रमि । फुत् पंम्फुलितान् । चतुरं चंचलति रम्यचंक्रम्यते । मंदं दंद्रमति दूरन्दंद्रमित । संयताः सय्यतैः । अभ्रंलिहवहल्लिहैः । इत्यत्र “तौ मुम" [१४] इत्यादिना स्वागमस्य पदान्ते वर्तमानस्य च मस्य स्वावनुस्वारानुनासिकौ वर्णों पर्यायेण । पदान्त इत्येव । काम्य । स्वाविति किम् । रंरम्यते । सैणं सर्वः ।
I
•
१ ए सी डी पम्फलि. २ एफ् तान् ए ३ एफू भ्योप्युत्कृ . ४ एफ होडपा. ५ ए सी संयुताः ६ ए सी संयतैः ७ एफू 'भत्त्यादि ८ ए सी डी पम्फल ९ ए सी डी पम्फलि. १० ए यतैः सं
•