________________
१२
ब्याश्रयमहाकाव्ये
[मूलराजः] ___ सस्कर्ता । इत्यत्र "लुक्" [१३] इति लुगन्तादेशः । पृथग्योगादनुस्वारानुनासिकौ च पूर्वस्येति निवृत्तमिति तो न भवतः ॥ केचित्त्वत्राप्यनुनासिकमिच्छन्ति । संस्कर्तुम् ॥
चतुरं चंचलत्यचा मंदं दंद्रमति द्विपाः । रम्यञ्चक्रम्यते स्त्रैणं सर्वोस्मिन्पंफुलद्गुणः ॥ ५९॥ ५९. अस्मिन्पुरे चतुरं धौरितकादिगतिबन्धुरं यथा स्यादेवमश्वाश्चंचलति कुटिलं चलन्ति । वलान्तीत्यर्थः । यङ्लुबन्तः । तथा द्विपा गजा मन्दं सलीलं यथा स्यादेवं दंद्रमति कुटिलं गच्छन्ति । तथा स्त्रैणं स्त्री. समूहो रम्यं सलीलमन्थरं यथा स्यादेवं चंक्रम्यते कुटिलं गच्छन्ति । एवं च न केवलमश्वादीनामुत्कृष्टगुणत्वं किं त्वस्मिन् सर्वोपि घटपटादिः पदार्थः पंफुलतोतिशयेन फलन्तोतिविलसन्तो गुणाः सौन्दर्यादयो यस्य स पंफुलगुणोस्ति । सर्वमप्यत्र वस्तु गुणोत्कृष्टमित्यर्थः ।।
दूरन्दन्द्रमितच्छायान् सदा पम्फुलितास्तरून् ।
खचङ्कमणकन्याश्च चयूयन्तेत्र कौतुकात् ॥ ६॥ ६०. ख आकाशे कुटिलं क्रामन्तीत्येवंशीला "द्रमकम" [ ५.२.४६] इत्यादिनाने खचकमणा विद्याधरादयस्तेषां कन्या बालिका अत्र पुरे वर्तमानांस्तख्नुपवनदुमान कौतुकाचञ्चूर्यन्ते मास्मान् जनश्चौर्य इत्यपवादी१ए सी डी पम्फलि.
१५ वी सी डी धौरतिका. २ सी डी एफ लीलं म'. ३ एफ णवत्त्वं. ४ सी डी एफ दिप. ५ ए पंफल'. सी डी पुंफल'. ६ सी डी तिवि. ७ पफ पंफल'. सीडी पुंफल'. ८ वी डी मतीत्ये. ९ वी सी ला युचक्र .