________________
[है० १.३.१२.] प्रथमः सर्गः ।
४१ रत्नसंकरसंस्स्कारि त्वष्टा पश्येदिदं यदि ।
संस्स्कर्तु स्वःपुरी कं कमुपस्कारं न चिन्तयेत् ॥ ५७॥ ५७. रत्नानां नानाजातीयानां मणीनां संकरो मेलकस्तेन संस्कारः शोभातिशयो विद्यते यत्र तद्रत्नसंकरसंस्कारीदं पुरं त्वष्टा देववर्धकियदि पश्येत्तदा स्व:पुरीममरावतीं संस्कर्तु विशेष्टुं कं कमुपस्कारं प्रयत्न न चिन्तयेत् । किं तु येन येन प्रयत्नेन स्वःपुर्येतत्पुरसदृशी स्यात्तं तं सर्वमपि परिभावयेदित्यर्थः । एतेनास्य स्व:पुरीसकाशादप्यधिकं रम्यत्वमुक्तम् ॥
न यया कोपि सस्कर्ता संचस्कार यथा न च ।
अरोचकी गुणवत्र सँस्कर्तुं यतते तथा ॥५८॥ ५८. अत्र पुरे न रोचते धान्यं क्षुधोभावादम्मिन् “नॉग्नि पुंसि च" [५.३.१२२.] इति णके अरोचको बुभुक्षाया अभाव: सोस्त्यस्य "प्राणिस्थाद्' [७.२.६०] इत्यादिना रुग्वाचित्वादिनि अरोचकी नरो गुणेषु व्यअनेषु विषये संस्कर्तु हिॉकर्पूगदिक्षेपेण तथा तेन प्रकारेण यतते प्रवर्तते यथा कोपि पुमान् न संस्कर्ती न संस्करिष्यति यथा कोपि न च नैव संचस्कार संस्कृतवान् ॥
संस्स्कारि संस्स्कर्तुम् । इत्यत्र "स्सटि समः" [१२] इति सोन्तादेशोनुस्वा. रानुनासिकौ च पूर्वस्य ॥ स्सटीति किम् । संकर । कृत् विक्षेपे । संकरणं संकरोल । कृगोभावानात्र स्सद ॥ संचस्कार । इत्यत्र तु व्यवधानाम भवति । सम इति किम् । उपस्कारम् ॥
१ए 'नां सं. २सीडीएफ संस्कारी'. ३ए °न प्रसीडीन स्वः'. ४ एफ क्षुधाना.५ पफ नास्तिनि. ६ डी वस्तस्य. vडी ते व.एफ ते य. ८ ए एफर्ता सं. ९ सी एफ संस्कारि. १० ए सी संस्कर्तुम्.