SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [मूलराजः] बंभीणन् कि हरिश्चन्द्रो पाता किं पुरूरवाः । वृन्पुप्यन किमु मांधतेत्यत्र तक्र्येत भूपतिः ॥ ५५॥ ५५. अत्र पुरे भूपतिन्द्रजाः प्रीणन् मधुरवचनादिदानेन सुखयन् सन् किमयं हरिश्चन्द्रस्तृतीयचक्री । हरिश्चन्द्रेण हि प्रजा अत्यन्त प्रीणिताः । इत्येवं प्रकारेण तक्र्येत संभाव्यते । जनैरिति संबन्धः । अग्रेप्येवं योजना कार्या । पाता चौरादिभ्यो रक्षन् पुरूरवाश्चतुर्थचक्री। पुप्यन् इत्यत्र पुपिरन्तर्भूतणिगर्थः सकर्मकः । दानसन्मानादिना पोषयनित्यर्थः । मांधाता आद्यचक्री ॥ खत्रीणन् धपाता। इत्यत्र "नृनः पेषु वा" [१०] इति रोन्तादेशो वानुस्वारानुनासिकौ च पूर्वस्य ॥ पक्षे । नृन्पुप्यन् ॥ कांस्कान् रथान्भटान् काँस्कानश्वान् कान् कानिभानिह । न पश्यति सहस्राक्षो दृक्सहस्रं कृतार्थयन् ॥ ५६ ॥ ५६. सहस्राक्ष इन्द्रो दृक्सहसं लोचनसहस्रं कृतार्थयन् कृतार्थमाचक्षाण: सन्निह पुरे कांस्कान् रथान् कांस्कान् भटान् पत्तीनं कानश्वान् कानिभांश्च न पश्यति किं तु सर्वानपि गजादीन । सर्वोत्कृष्टगुणैनिरुपमत्वेनादृष्टपूर्वदर्शनात्स्वमक्षिसहस्रं सफलं मन्यमानः सहस्राक्ष: सतर्ष पश्यतीत्यर्थः । एतेनात्र चतुरङ्गबलसंपद्विशेष उक्तः ॥ कांस्कान् । काँस्कान् । इत्यत्र “द्विः कानः कानि सः" [११] इति सोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ द्विरिति किम् । कान्कान् ।। १ एफ न फि मां. १ एफन्तं प्रणताः. २ एफ ण वितय॑ते सं. ३ एफ र्या एताश्चौरा. ४ी सं . ५ पफ न कांस्कान. ६ एफ पि राजा. ७ एफ् सहर्ष.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy