________________
[ है० १.३.९. ]
प्रथमः सर्गः ।
३९
५३. अत्र पुरे पुमांसो गाव इव पुंगवा नरश्रेष्ठाः पुंस्तमैः श्रेष्ठपुरुषैः सह सौहृदं मैत्रीं कुर्वते । किंभूतैः । पुंस्त्वपुंख्यातैः । पुंस्त्वेन पुरुषकारेण शौर्येण पुंसु ख्यातैः प्रसिद्धैः । अत एव पुंस्प्रष्ठैः पुरुषेष्वप्रेसरैः । पुंगव अपि किंभूताः । पुंष्ठकुराः । नृणां स्वामिन: अत एव सपुंस्थट्टा: पुरुषौघावृताः । एतेनात्रत्यजना गुणिनो गुणानुरागिणश्चेत्युक्तम् ॥
पुंशुरा अत्र पुंष्टकाः परपुंस्यु॑हू॒तासहाः ।
अपुंक्षुद्राः प्रकुर्वन्ति सेवां चौलुक्यभूभुजाम् ॥ ५४ ॥
I
५४. अत्र पुरे पुंष्टकाः पुमांसः पौरुषोपेता ये टक्काः क्षत्रियजातिभेदास्ते चौलुक्यभूभुजां मूलराजादीनां सेवां प्रकुर्वन्ति । कीदृशाः । पुंशूराः पुंसु पौरुषोपेतेषु भटेषु शूराः । अत एव परे शत्रवो ये पुमांसस्तेषां यत् थुट्टूतं न्यक्काराय मुखविकृतिपूर्वं शब्दविशेषस्तस्याप्यसहा अक्षमाः । तथा क्षुद्राः क्लिष्टचेतस्का द्रोहाद्यभिप्रायेण । पुमांसश्च ते क्षुद्राश्च पुंक्षुद्रा न तथापुंक्षुद्राः ॥
पुंस्कामाः । पुंस्कोकिल । अपुंस्खेटैः । पुंस्खल । अपुंश्चल्यः । पुंश्चैौराः । अपुंश्छन्नैः । पुंश्छेकैः। पुंष्टिट्टिभ । पुंष्टक्काः । पुंष्ठकाः । पुंष्टकुराः । पुंस्तमैः । पुंस्त्व | पुंस्थट्टाः। पुंस्थुङ्कृत । पुंस्पशुः । पुंस्प्रष्ठैः । पुंस्फल्गुः । पुंस्फेरुः । इत्यत्र‘पुमोशिटि” [९] इत्यादिना रोन्तादेशोनुस्वारानुनासिकौ च पूर्वस्य ॥ अशिटीति किम् । पुंशूराः । अघोष इति किम् । पुंगवाः । अधुट्पर इत्येव । अपुंक्षुद्राः । अख्यागीति किम् । पुंख्यातैः ॥
१ डी 'स्थूत्कृता एफू 'स्थूत्कृता .
१ एफू 'गाव: पुं. २ ए सी डी एफ् पुंस्सु ख्या. ४ सी डी 'गुणा. ५ ए सी डी एफ् पुंस्सु पौ ७ ए ठक्काः ।. • एफ् स्त्वसपुं,
९ सी एफ
३ सी डी 'वापि.
६ डी एफ् थूत्कृतं. स्थुत्कृत. डी 'स्थूत्कृतम् .