________________
[ है ० ४.२.९५] नवमः सर्गः ।
६९७ शासद्भिभ्रद्भुवं भीमो विशन्त्रैणान्युदैक्षत ।
दृशं ददन्ति जक्षन्ति वाचं ददति जाति ॥६५॥ ६५. भुवं शासद्रक्षन्विभ्रत्पोपयन्भीमो विशनपुरे प्रविशन्सन् बैणान्युदैवत । कीटंशि । दृशं चक्षुर्ददन्ति भीमदर्शनाय भीमाभिमुखं क्षिपन्ति सन्ति जक्षन्ति रूपातिशयोत्थहर्पाद्धसन्ति । तथा वाचं ददति भीमरूपातिशयवर्णनायान्योन्यं वचनं वितरन्ति सन्ति जक्षति हर्षान्मिथो हसन्ति । बिभ्रत् । शासत् । इत्यत्र "अन्तो नो लुक्" [ ९४ ] इति नस्य लुक् ॥
ददति ददन्ति । जक्षति जक्षन्ति । अत्र “शो वा" [९५ ] इति नस्य वा लुक्॥
तस्यादरिद्रल्लावण्यं प्रीणत्मविशतस्तदा । मिमते स्म न पोर्योंपि मिमीतामितरः कथम् ।। ६६ ॥ ६६. तस्य भीमस्य तदा प्रविशतो लावण्यं सौन्दर्य पौयोंपि वैदग्ध्येन प्रसिद्धा नागरिको अपि न मिमते स्म । एतावदिदमिति न परिच्छिन्दन्ति स्म । यतोदरिद्रत्प्रचुर ती प्रीणत्सर्वलोकान्हर्षयत्तस्मादितरो ग्राम्यस्त्रीलोकः कथं मिमीताम् ॥
स प्रीणीते स दत्ते स्म धत्ते स च तथा श्रियम् ।
दरिद्रितः स न यथा विभितः स न रोदसी ॥६॥ ६७. स भीमस्तथौचित्यरूपेण तेन प्रकारेण श्रियं प्रीणीते स्म या
१ए तस्माद'. २ सी डी 'रिद्रत:. ३ ए द्रित स्म.
१सी डी शन्प्र. २ ए णान्यद. ३ ए कीदृशि. ४ ए मिम्वखं क्षिपति स'. ५ सी डी खं विक्षि. ६ बी 'न्ति यक्ष. ७ ई विरमन्ति. ८ एसी 'क्षन्ति ह. ९ ए सी वा. १० ए काश्चपि. ११ एथात्प्रीण. १२ ए धंतिमी'.
८८