SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ है० ४.२.७५.] नवमः सर्गः । ६८९ अन्यून एभ्यः पूर्वेभ्यो भीमो जयति संप्रति । यत्र न क्षितकः कोपि क्षीणकः केवलं कलिः ॥ ४९ ॥ ४९. संप्रत्येभ्यः पूर्वेभ्यः पूर्वजेभ्यः पुरवआदिभ्योन्यूनोहीनो भीमो जयति । यत्र भीमे सति सर्वस्य सुखितत्वान्न कोपि भिंतक: परपराभवादिना दीनः केवलं परं कलि: कलिकालः क्षीणको धर्मोदयाद्दीनः ॥ मैत्री हि सहजा सद्भिः सतामित्यावयोरिमाम् । अन्यथा ख्यापयन्कोस्तु क्षितायुः क्षीणसंततिः ॥ ५० ॥ ५०. हि स्फुटं सतां साधूनां सद्भिः सह सहजा स्वाभाविकी मैत्रीति हेतोरावयोः सतोरिमां मैत्रीमन्यथामैत्रीप्रकारेण ख्यापर्यंन्कः क्षीणायुः क्षीणतसंतति: क्षीणसन्तानश्चास्तु । अकृत्रिममैत्रीपवित्र योरावयोरमैत्री मुमूपुरेव वक्तीत्यर्थः ।। क्षीणं यद्वा स्वयं तेन किं हि तस्य हितेन नः । त्वं श्लाघाहीण नः पुण्यैर्ऋतं स्वाम्यनृणागतः ॥ ५१ ॥ ५१. यद्वा तेनावयोमैत्रीमन्यथा ख्यापयता नरेण स्वयं क्षीणं महालीकोक्तिरूपतीत्रपापपातादात्मनैव क्षयं गतम् । ततश्च हि स्फुटं तस्य स्वयं क्षीणस्य क्षितेन क्षयेण नोस्माकं किं न किंचित्तत्मयस्य मृतमारणतुल्यत्वात्तस्मीत्तद्वार्तामपि वयं न कुर्म इत्यर्थः । अथात्मानुगतमेव तात्पर्यमाह । हे श्लाघाहीण महापुरुषत्वात्प्रशंसया लजित तथा १ बी सहजामि . ए सत्यमि'. २ ए बी ई °ण्ये शतं. १बी सी डीभ्यः पु. २एतकोप'. ३ ए.दीनो के. ४ एलि: का. सी लिकालक्षी. ५ बी हि स्फट. ६ सी डी हजा. ७ई त्रीहि हे'. ८ए यक्षः क्षी'. ९एबीई युः क्षितसं. १० सी मूर्खरे . डी मूर्खरै'. ११ए यं तेन हितस्य. १२ सी डी मादा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy