________________
६७६
व्याश्रयमहाकाव्ये
[ भीमराजा ]
देवस्य राज्ञो याज्ञा तस्याः सौरभं गुणगौरवं प्रधानादेशमित्यर्थः । अहमजिघ्रिपं घ्रापयामास । तवाज्ञां प्रतीच्छन्तं दूतमहं प्रयुक्तवानित्यर्थः ॥
भजिधिपम् अजिघ्रपत् । इत्यत्र " जिघतेरि:" [ ३८ ] इति वा-छः | अतिष्ठिपम् । अत्र “तिष्ठतेः " [ ३९ ] इति नित्यमिः ॥ अदूषयद्भिः प्रतिभामदूष्यैः सोप्यदोषयन् । धीगृहितेङ्गितैः पुम्भिरावृतोत्रैतुमिच्छति ।। २५ ।
२५. सोप्यदोषयन्न केवलं पुम्भिः प्रतिभामदूषयद्भिः किं तु दूतोपि प्रतिभां प्रज्ञां स्वामिद्रोहाद्यभिप्रायेणाकलुषयन्सन्नत्र देवपादान्तिक एतुमिच्छति । कीदृक् । पुम्भिर्नरैरावृतः । किंभूतैः । अदूर्यैः (स्यैः) कुलीनत्वादिसद्गुणोपेतत्वेन लाघ्यैरत एव प्रतिभामदूषयद्भिः । तथा धिया प्रयोज्यकर्ध्या गूहितं संगोपितमिङ्गितं चेष्टितं दुर्वचोव्यापारादि यैस्तैगम्भीराशयैरित्यर्थः ॥
अदूष्यैः । अत्र "र्जेदुषो णौ” [ ४० ] इत्यूव ॥
प्रतिभार्मं दूषयद्भिः प्रतिभामदोषयन् । इत्यत्र “ चित्ते वा" [ ४१ ] इति
बोत् ॥ चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् ॥ गूहित । इत्यन्त्र “गौहः स्वरे” [ ४२ ] इत्यूस् ॥ तेन्वभूवञ्जनास्तं नु पार्थदूतो बभूव यः । मुं दामोदरं द्रष्टुं जग्मुर्जघुर्न संशयम् ॥
२६ ॥
२६. येमुं दूतं दामोदरं दामोदराख्यं द्रष्टुं जग्मुस्ते जना यः
१ प्यदूष
१ बी जित्रिप". २ सी डी जिघिते. ३ ए सी डी 'प्यदूष ४ ए 'बेस्तोर्ग' सी डी 'बैर्ग'. ५ ए उदोषो. ६ए मदो. ७ ए गोहेः स्व. ८ सी दूधदा.