________________
६७२
घ्याश्रयमहाकाव्ये
। भीमराजः]
श्वायुतमश्वानां दशसहस्राणि दूतेन सहेह प्रत्यक्षे देश आगतिमागमनमववर्तचक्रे । कीटगित्याह । एपेच्छत्रैर्महासामन्तादिमू|परिस्थि तैरातपत्रैः कृत्वा व्योमाविभ्रजदशोभयत् । तथैप कुन्तकान्तिभिः कृत्वा व्योमावीभसदुददीपयत्। तथैप किरीटोमहासामन्तशिरःस्थमुकुटांशुभिः कृत्वा व्योमावभासन् । तथैष हेपारवैः कृत्वा व्योमावीभषत्प्रतिशब्दितैरशब्दाययत् । तथैप खुराणैः कृत्वा क्ष्मामवभापच्छन्दायमानां प्रायुतादिदीपत्समतापयदपीपिडत्पीडितवांश्च । तथैष भारेण क; क्रोडदंष्ट्रामपि न केवलं क्ष्मामादिवराहदाढामप्यपिपीडददीदि. पच्च । तथा यद्यस्माद्धेतोरेष रजो धूलिमुदमीमिलदुच्छालितवांस्तेन हेतुना तमोजिजीवदुल्लासितवानित्यर्थः । तथैप तान्यस्त्राण्युदमिमीलदप्रकटयद्यैः कृत्वैष उद्योतमजीजिवत् । तथैप तान्दुन्दुभीन्पटहानचकाणदवादयद्यैः कृत्वैष निकुञ्जानि गिरिगह्वराण्यचीकणत्प्रतिशब्दैः शब्दायितवान् । तथैष ता ढेका विजयभम्मा अरराणचावादयश्च यकाभिः कृत्वा द्यामरीरणत् । तथैष काहला अववाणचावादयत् । एतत्स्वरस्यात्युदात्तत्वादुत्प्रेक्ष्यते । एष निजोत्कर्ष न्वात्मीयोत्कृष्टतामिवाबीभणदभाणयत्प्रस्तावात्काहला एव । “गतिबोध०" [२.२.५] इत्यादिना णिकर्तुः कर्मता । काहलोपीवादित्यर्थः । तथैष उच्चैः शङ्खानवीवणच । एतत्स्वरस्य च मङ्गल्यत्वादुत्प्रेक्ष्यते । मङ्गलं न्वबौणद्भाणितवान् । प्रस्तावाच्छवानेव । तथैष कापि शत्रुपु क्षोभ भयेनाकुलतामशाणददात् । तथैष क्वापि नागरिकेषु ऋद्धिविशेषेण विस्मयमाश्व
१सी डी हश्राणि. २ ए षस्थत्रैम'. ३ ए. दिमहामू. ४ बी सी डी "रिधृतै'. ५ ए स्थितेरा . ६ ए बीसस. ७ बी शिरस्थ . ८ ए पारावः कृ. ९ए मानव . १० बी ई युक्तादि'. ११ ए "लं म्यानादि. १२ ए बी डी उद्योत. १३ ए जिषस्तथै'. १४ ई ढक्कावि०. १५ ए विषय . १६ ए 'गच्च वा. १७ बी सी डी कृत्वैष चा. १८ ए णत्वाचा. १९ई शिकर्तुः. १० ए पार्श्वदि २१ बी व उ २२ डी लं त्वब. २३ ए णप्राणिः.