________________
६६८
व्याश्रयमहाकाव्ये
भीमराजः]
क्ष्णमुपरमय्योपरमय्य यमयितुरुपरमयितुस्तिरस्कुर्वतः सत इत्यर्थः । मैत्र्यै बलिष्ठतयायं संप्रति शत्रून्पराभवन्मा भीममपि पराभूदिति सख्याय किमेप भीम उदयमि मत्रिभिरुद्यम कारितः । किं वा मैत्र्य संप्रत्ययं शत्रूजयन्मा भीमस्यें दुःसाध्यो भूदित्याशयेन विग्रहायोदयामि । तथा विधिदैवमर्क न यामयति न परिवेवेष्टि परचक्रकृतराष्ट्रभङ्गादिसूचकं दुर्दैवकृतमर्कपरिवेषाद्यरिष्टं न किं चिदस्तीत्यर्थः । चः परमर्थे । परं भीम इतोस्मिन्देश एति । कीहक्सन् । अरीञ् ज्ञापंज्ञापं ज्ञपंज्ञपमभीक्ष्णं हिंसित्वा हिंसित्वा ज्ञपयन्हिसन्नत एव मामप्रज्ञपयनपरितोपयन् । तथा यत्पूर्वैर्यस्य भीमस्य पूर्वजैर्मूलराजाद्यैरखं क्षपयित्वा तीक्ष्णीकृत्याज्ञाप्यमारि शत्रुहिंसा चके । भावत्र जिच । 'तुः परमथें । परं चहयित्वा शाठ्यं कृत्वा यत्पूर्वैर्नाज्ञपि न हिंसितं सोयं भीमोतर्कितमभिपेणकत्वात्किं चाहंचाहं चहचहमभीक्ष्णं छलयित्वा छलयित्वा जयेच्छत्रु वशीकुर्यात् । “विधिनिमन्त्रण'' [५-४-२८] इत्यादिना संप्रभे सप्तमी । तथैनं भीमं ज्वालंज्वालं ज्वलंज्वलं प्रत्यवस्कन्दनौदिनाभीक्ष्णं कोपयित्वा कोपयित्वा न ज्वलयामि न कोपयामि । किं कृत्वाज्ञात्वा । किमित्याह । अमुना भीमेन न चाहिता न शाठ्यं करिष्यते चहिता वा । वा शब्दोत्रापि योज्यः । शाठ्यं करिष्यते वा । तथामुनी नावालि कोपेनात्मा न ज्वालितोज्वलि वेति । तथा परं शत्रु ज्वालयन्प्रतापैः संतापयन्प्रज्वलयन्प्रकर्षेण संतापयंश्च भीमो दूतं प्रलयेस्प्रेषयेत् । कीहक्सन् । विग्रहं वा हलयंचालयन्प्रवर्तयनि
१९ तोः स . २ सी डी भूयादि'. ३ डी मैत्र्ये सं. ४ ए ‘स्य दुसा. ५एमकै न. ६ए सीडी रमार्थे. ७ए २ चहयित्वा शाठ्यं कृत्वा यत्पूर्वनाशपि न हिसितं सोयं भीमोतर्कितन्हि. ए पूर्वैर्मू. ९ईवे नि'. १.सी तु प. ११ए पूर्वेर्ना. १२ सी नामी . १३ सीडी ते चाहि. १४ सी ती नावा. १५ बी तो ज्वालिचेति. १६ ए repeats from यन् to लयन्. १७९ ईज्याल. १८ ए पयव भीमो दू'. १९डीये की . २० ए वा हुल'.