________________
६५४
व्याश्रयमहाकाव्ये
[ भीमराजः
मनिच्छन्नपि दत्ता दिदीपा क्षेतुमिच्छा यस्य स तथा। किं कृत्वा क्षमापगारमिव क्ष्मां मृदमपगूर्येवोद्यम्येव गिर्यपगोरं गिरीनुद्यम्य । उभयत्र "द्वितीयया" [५.४.७८] इति णम् । यथा केनापि मृत्खण्डमुत्पाट्यत एवं वहे प्रक्षेपार्थ गिरीनुत्पाट्येत्यर्थः । अत एव दीनं भयेन कातरं मीनकुलं मत्स्योघो यत्र स तथा वायुपदायो जलक्षयो यत्रं सः ॥ तैरदीयत वहः परिबद्धोद्राक्प्रमाय च निमाय च वृक्षान् । तं प्रमातुमरिमाशु निमातुं दिक्षु कीर्तिमचलच्च चुलुक्यः ॥११०॥
११०. वहोदीयताक्षीयत । कीटक्सन् । वृक्षान्प्रमाय च हिं. सित्वा छित्त्वेत्यर्थः । निमाय च वहे क्षित्वा च द्राक् तैर्बलैः परिबद्धः । तथा चुलुक्यो भीमोचलच्च । किं कर्तुं तमरिं सिन्धुराज प्रमातुं हिंसितुं दिक्षु कीर्ति निमातुं च निक्षेप्तुं विस्तारयितुम् ।। सैन्धवस्य निमयः प्रमयो वास्त्वद्य दुर्निमयदुप्पमयस्य । इत्यनामयमयाश्वचम्पा मेतुकाममभिमातुमिहोचुः ॥ १११ ॥
१११. आमीनातीत्यामयो रोगो मिन्वन्तीति अचि मया उष्ट्रा अनामयं नीरोगं मयांश्वं मया अश्वाश्च येषां ते ये चमूपा नृपास्त इह भीमसमीप ऊचुः । किं कर्तुम् । मेतुकामं जिघांसुं सिन्धुराज. मभिमातुं हिंसितुम् । किमूचुरित्याह । दुर्निमयंदुष्प्रमयस्य दुःखेन क्षेप्यस्य हिंस्यस्य च सैन्धवस्य सिन्धुराभिजनो निवासोस्य "सिन्ध्वादेरन्" [६.३.२१६] इत्यञ् । तस्य सिन्धुराजस्याद्य निमायो निरास: प्रेमैयो वा हिंसा वास्त्विति । सिन्धुराजोद्यास्माभिनिरस्यो हिंस्यो वेति प्रतिज्ञा चक्रुरित्यर्थः ॥
१ ए मनच्छ. २ डी म्येच गि. ३ ए °तिणम । य. ४ ए सी डीई थुपादायोपल'. ५ सी डी व सः ॥. ६ सी तु मतरि. ७ ए प्रमांतुं.
डी ॥ अमी. ९बी नामीत्या. १० ए या अ°. ११ ए 'भिहातुं. १२ ई 'यःप्रम १३ई प्रमेयो.