________________
[है. ४.२.४.]
अष्टमः सर्गः।
६५३
म्लाय मा किमपि मुम्ल वहं यत्त्वं न विव्ययिथ विव्यय नाहम् । स्फारवानिह हि भूपतितेजःस्फाल इत्यजनि बन्धकृतां वाक्
॥१०८॥ १०८. वन्धकृतां सेतुबन्धकारिणां वागजनि । कथमित्याह । हे सुम्लायं वहं बद्धवानहं तु मन्दत्वान्नेति मन:संतापेन विच्छायमुख किमपि स्तोकमपि मा म्लाय मा विच्छायमुखो भूः । यद्यस्माद्धेतोर्वहं न त्वं विव्यायथ नाच्छादितवान बद्धवानित्यर्थः । अहमपि न विव्यय त्वयेव मयापि वहो न बद्ध इत्यर्थः । तर्हि केन बद्ध इत्याह । इह सेतुबन्धविषये हि स्फुटं भूपतितेजःस्फालो भीमनृपप्रतापसंचयः स्फारवान्स्फुरतीति ।
सुम्ल । इत्यत्र "आत्संध्यक्षरस्य" [१] इत्यात् ॥ अनैमित्तिकत्वादात्वस्य प्रा. गेव कृतत्वादाकारान्तलक्षणो डः स्यात् [ ५.१.७६. ] ॥
म्लाय । इत्यत्र "न शिति" [२] इति नात् ॥ विव्ययिथ । विव्यय । इत्यत्र "व्यस्थववि" [३] इति नात् ॥ स्फोर । स्फालः । अत्रे "स्फुर" [ ४ ] इत्यादिनात् ॥ क्ष्मापगारमिव गिर्यपगोरं सोदिदासुरपि दत्तदिदीषः । तैर्बलैरनुपदाय बबन्धे दीनमीनकुलवायुपदायः ॥ १०९॥
१०९. तैीमसंबन्धिभिर्बलैरनुपदाय क्षयमगत्वा सुखेनेत्यर्थः । स वहो बबन्धे बद्धः । कीदृक्सन् । अदिदासुरपि क्षेतु१ सी ई व्ययर्थ. २ बी पमार'.
१ सी डी यस्मा . २ ए बेहोर्व. ३ सी डी वान्वद्ध'. ४ सी न्याय त्वयेव स म. ५ ए ति ॥ मुम्ल. ६ ई मित्तक. ७ए न शीति इति वात्. ८ बी सी स्थवण'. ९ई त् ॥ स्पार. १० ए स्फारः । स्फा. ११बी °त्र स्फर. १२ एयगमत्वा.