________________
६४७
है० ४.१.१०१.] अष्टमः सर्गः। लय यत ऋद्धः स्फीतो यो भुजविक्रमस्तेन कान्तै रम्यैः । अतिशूरत्वेन सैन्यात्पूर्वमेव योद्धं कैश्चिद्वह उत्प्लवितुमिष्ट इत्यर्थः ॥ किं प्रशानसि भुजौ तव शंशान्तो वदत्यवनिवृत्रहणीत्थम् । सेतुकष्टमपि शामति सामप्रश्नपृष्टजनतासु किल म ॥ १०१॥
१०१. सामप्रभपृष्टजनतासु साम्ना मधुरालापेन यः प्रथः पृच्छा तेन पृष्टा या जनता लोकौघास्तासु विषये किलेति सत्ये सेतुकष्टमपि सेतोर्बन्धजनितं दुःखमपि शामति स्म शमिव सुखमिवाचरति स्म । क सत्यवनिवृत्रहणि पृथ्वीन्द्रे भीमे । किंभूते । वदति । कथमित्याह ।अहो भट किं प्रशान सि सेतुबन्धादुपशाम्यन्भवसि । तथा तव भुजौ किं शंशान्तो भृशमुपशाम्यत इत्थम् ॥ स्योमभिः स वह आहितसेतुस्यूत उत्पथविडम्बुभरष्ट्यूः । हुं मुवो मम गिरीनिति सेष्योति स्म मोमकृतमूतिनिमित्तात्॥१०२॥
१०२. स वहो मोमभिर्मवद्भिर्बन्धकैर्नरैः कृता या मूतिर्बन्धः सा चासौ निमित्तं च तस्माद्गिरीन्समीपस्थानद्रीन्सेप्योति स्मात्यर्थ बबन्ध सर्वतोप्लावयदित्यर्थः । कीहक्सन् । सीव्यन्ति स्योमानो बन्धकनरास्तैः स्योमभिराहितः कृतो यः सेतुस्तेनं स्यूतो बद्धोत एवोत्प. थानुन्मार्गान्विच्छति गच्छति योम्बुभरस्तं ष्ठीवति निरस्यति यः सः । उत्प्रेक्षते । न गिरीन्मोमकृतमूतिनिमित्तात्सेज्योति स्म किं तर्हि हुँ मुवो ममेति । इतिभिन्नक्रमे । इव उत्प्रेक्षाद्योतको ज्ञेयः । हुमिति कोपे।
१बी सी रीनति. २ सी कृतिमू.
१ ई ऋद्ध स्फी'. २ एनः प्रच्छा. ३ डी किं शशा. ४ बी न्य: स चा. ५ बी 'द्रीनसेष्यो.. ६ ए बी 'न स्फूतो. ७बीई प्रेक्ष्यते. ८बी °त्तात्सैष्यो'. ९ बी सी प्रेक्ष्यायो.