________________
६४४ ब्याश्रयमहाकाव्ये
(भीमराजः] प्रसंस्तीत । प्रसंस्तीवत् । इत्यत्र "प्रसमः स्त्यः स्तीः" [९५] इति स्तीः ॥ शीतशीनमकरन्दलवः प्रस्तीमशीनवदुदम्बुतुषारः। श्यानतां नृषु दिशन्पवनः प्रस्तीतधर्मसलिलानि जहार ॥१६॥
९६. पवनः प्रस्तीतधर्मसलिलानि श्रमोद्भवान्संह तस्वेदविन्दूजहार । कीदृक् । शीतेन शीतलगुणेन शीता द्रवीभूय कठिनतां गता यद्वा शीता: शीतला अंत एव शीना मकरन्दलवाः पुष्परसलेशा यत्र सः । तथा प्रस्तीमाः संहता: शीनवन्तो द्रवीभूताः सन्तः कठिनतां गता उदुत्कटा अम्बुतुषारा वहजलसंवन्धि हिमकणा यत्र सः । तथा मृदुत्वानृषु श्यानतां गतिमत्तां दिशन्ददत् ॥ प्रस्तीम प्रस्तीत । इत्यत्र "प्रात्तश्च मो वा" [ ९६ ] इति वा मः ॥
शीन शीनवत् । स्पर्शे शीत । इत्यत्र "इयः शी" [ ९७ ] इत्यादिनां शीः ॥ द्रवमूर्तिस्पर्श इति किम् । श्यानताम् ॥ प्रातिशीन्यमभिशीनमभिश्यानेन जाड्यमवशीनमथापि । सेतुबन्धनपरत्वमवश्यानेभ्य ओज इह नाभ्यवशीनम् ।। ९७ ॥ ___९७. इह वहे सेतुबन्धनपरत्वं सेतुबन्धतात्पर्यमवश्यानेभ्यः प्रा
भ्यो भटेभ्यः सकाशादभिश्यानेनेतस्ततो भ्रमणेन प्रातिशीन्यं रोगित्वमभिशीनमपगतम् । अथानन्तरं जाड्यमपि रोगादिकृतालस्यम१पहारः ॥ प. २५ ओहह.
१बी मस्त्यस्ती• २ सी ति स्ती॥. ३ ए शीता द्र. ४ ए अम्बतु. ५ई बन्धहि. ६ ए शोना शी. ७ ई नव. ८ सी नवाद,
सी ना शी॥. १० बी हे शेतु. ११ बी व शेतु. १२ए "नेनैव'. १५ सीडी शीतम.