________________
[ है० ४.१.९४ . ]
अष्टमः सर्गः ।
स्फीतवत्तुमुलधावदनापीनान्धुसैनिकसमूहमुदीक्ष्य । स्फीतभीतिरटदाटविकापीनोधिकागण उदत्रसदारात् ॥ ९४ ॥
९४. अटन्त्यो भ्राम्यन्त्य आटैविक्योरण्यचारिण्यो या आपीनोनिका अज्ञाता आपीनोध्यश्च मर्यस्तासां गण आरादन्तिकादुदत्रसदनश्यत् । यतः कीदृक् । स्फीतभीतिः प्रवृद्धभयः । किं कृत्वोदीक्ष्य | कम् । स्फीतवान्संततस्तुमुलो व्याकुलरवो यस्य स तथा धावञ्जवेन गच्छंस्तथानापीनोप्रवृद्धोन्धुर्व्रणं यस्य स तथा निर्व्रण इत्यर्थः । यः सैनिकसमूहस्तम् । आटविकेत्यत्र “ चर्रति" [ ६.४.११ ] इतीकण् ॥
स्फातटङ्ककुलिशैः प्रसमाद्यस्तीतपङ्कमिव चिच्छिदुरद्रीन् । स्फातवद्धुजभृतः प्रसमाद्यस्तीतवद्दृषद उद्दधिरे च ॥ ९५ ॥
९५. स्फातवद्भुजभृतः पीवरबाहुधारिणो बलिष्ठभटाः स्फाता: स्थूला ये टङ्काः पाषाणदारकास्त एव कुलिशानि तैः कृत्वाद्रींश्चिच्छिदुः । प्रसमाद्यस्तीतपङ्कमिव प्रसमाद्यस्तीतः प्रसंस्तीतः कठिनीभूतो यः पङ्कस्तं यथा केचिच्छिन्दन्ति तथानायासेन चिच्छिदुरित्यर्थः । तथा प्रसमाद्यस्तीतवद्दृषदौतिकठोरशिला उद्दधिरे चोत्पाटितवन्तश्च ॥
अनापीनान्धु । आपीनोमिका । इत्यत्र "आडोन्धूधसोः " [ ९३ ] इति
१०
ft: 11
६४३
११
स्फीत । स्फीतवत् । स्फीत । स्फातवत् । इत्यत्र "स्कायः स्फी वा (स्फीर्वा ?)” [ ९४ ] इति वा स्फीः ॥
१ ए दीक्ष। स्फी.
•
१ बी श्रामन्त्य २ ए म्यन्त भ° ३ सी 'टकिक्यो' ४ ई 'रिष्य आ. ५ डी 'कुलो र° ६ बी डी ई 'ती' सी 'रतीकथा ॥ स्फा ७ सी 'मायुस्तीतप्र'. ८ बी 'च्छिदन्ति ९ सी दोभिकवोर १० ई पीः ॥ स्पीत । स्फीतवान् । स्फा ं. ११ सी स्फीतः । स्फी. १२ सी स्फातः । स्थात. १३ ई स्फाय स्फी'.